2023-04-29 08:43:55 by ramamurthys
This page has been fully proofread once and needs a second look.
अत्र रजश्शब्दादीनां सान्तत्वेन प्रयोगदर्शनात् कथमदन्ततेति चेद्--अत्राहुः[^235]।
सर्वधातुभ्या-ऽसुन् (उणादि-६२८) इतिसूत्रेण रञ्ज रागे तप संतापे षह मर्षणे
इत्येतेभ्यः असुन्प्रत्यये सान्तत्वमेषाम् । पचाद्यचि (नन्दिग्रहीतिसूत्रेण ३-१-१३४ )
घञर्थे कविधानमिति वार्त्तिकेन (ग्रहवृदृनिश्चीति सूत्रस्थेन (३-३-५८) कप्रत्यये
अदन्तत्वमपि । भ्रातृचरणपद्ये तु तपरञ्जितकौशिकमित्यत्र तपश्शब्दस्यादन्त-
त्वानुपपत्तिं मत्वा तपेन ग्रीष्मर्तुना रञ्जितकौशिकमिति रीत्या कैश्चित् कृतं
क्लिष्टव्याख्यानं नादरणीयम् । व्रतरूपो यः परंतपः तेन रञ्जितकौशिकमिति
व्याख्यानान्तरमपि न युक्तम् । द्विषत्परयोस्तापेः (३-२-३९) इत्यनेन धर्मिण्यर्थे
एव खच्-प्रत्ययस्य विधानात् । वयं तु मन्यामहे--व्रतो
ब्रह्मचर्यनियमः । तद्विषये
तेन वा परम्--उत्कृष्टम् । तपेन--ब्रह्मध्यानादिना रञ्जितकौशिकम् इति ।
यद्वा-तप ऐश्वर्ये इति धातोः पूर्ववदचि तपेन--ऐश्वर्येण रञ्जितकौशिकमिति वा ।
भुवनाधिपतिरप्यहं त्वया सह गच्छामीत्येतादृशं तोषं विना किं तव तोषान्तरेणेति
भावः । एतेषां शब्दानामदन्तत्वे द्विरूपकोशोऽपि संवादकः--
यथा
नभं तु नभसा सार्धं तपं तु तपसा सह ।
सहं तु [^236]सहसा सार्धं रजेनापि समं रजः ॥ इति ।
अथ कथम् --
पिण्डं दद्याद् गयाशिरे इति वायव्यपुराणे प्रयोगः ।
कुण्डलोद्घृष्टगण्डानां कुमाराणां तरस्विनाम् ।
निचकर्त शिरान् द्रौणिर्नालेभ्य इव पङ्कजान् ॥ इति महाभारते च ।
अत्र असुन्-प्रकरणे श्रयतेः स्वाङ्गे शिरः किच्च (उणादि-६३६) इति सूत्रेण
सान्तशब्दस्यैव व्युत्पादनात् । कथं प्रकृते अदन्तत्वमेतस्य इति चेत्-- अत्र केचित्
छन्दोवत् पुराणानि भवन्ति इत्याश्रित्य साधुत्वमदन्तत्वेऽपीत्याहुः । वस्तुतस्तु
तस्मिन्नेव सूत्रे [^शूहिंसायामिति] धातोर्घञर्थे ये कप्रत्यये (घञर्थे कविधानमिति
वार्त्तिकेन) ॠत इद्धातोः (७-१-१००) इत्यनेन इकारे अदन्तोऽपि शिरशब्दः
इति [^237]भाष्यज्ञाः । अत एव विक्रमादित्यकोशेऽपि
शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा--इति ।
[^235]. See T.B. on Uṇādi-628. It has the discussion on these words. It
does not have illustrations for adanta-forms. Our author supplies the quota-
tions for the uses.
[^236.] nabhas (m) is śrāvaņamāsa; and also the sky (neuter); tapas is austerity;
sahas is mārgaśīrṣamāsa; rajas is dust.
In all these meanings the words are thus shown to be possible with a-stems
also.
[^237]. See T.B. on Uṇādi-636. It has the discussion. Probably it was in
the P.M. too.
सर्वधातुभ्या-ऽसुन् (उणादि-६२८) इतिसूत्रेण रञ्ज रागे तप संतापे षह मर्षणे
इत्येतेभ्यः असुन्प्रत्यये सान्तत्वमेषाम् । पचाद्यचि (नन्दिग्रहीतिसूत्रेण ३-१-१३४