This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 

 
अत्र रजश्शब्दादीनां सान्तत्वेन प्रयोगदर्शनात् कथमदन्ततेति चेद्-अनाहुः 235।

सर्वधातुभ्या-ऽसुन् ( उणादि-६२८) इतिसूत्रेण रञ्ज रागे तप संतापे षह मर्षणे

इत्येतेभ्यः असुन्प्रत्यये सान्तत्वमेषाम् । पचाद्यचि (नन्दिग्रहीतिसूत्रेण ३-१-१३४ )

ञ्ञर्थे कविधानमिति वात्तिकेन (ग्रहवृदृनिश्चीति सूत्रस्थेन (३-३-५८) कप्रत्यये

अदन्तत्वमपि । भ्रातृचरणपद्ये तु तपरञ्जितकौशिकमित्यत्र तपश्शब्दस्यादन्त-

त्वानुपपत्त मत्वा तपेन ग्रीष्मर्तुना रञ्जितकौशिकमिति रीत्या कैश्चित् कृतं

क्लिष्टव्याख्यानं नादरणीयम् । व्रतरूपो यः परंतपः तेन रञ्जितकौशिकमिति

व्याख्यानान्तरमपि न युक्तम् । द्विषत्परयोस्तापेः (३-२-३६) इत्यनेन धर्मिण्यर्थे

एव खच्-प्रत्ययस्य विधानात् । वयं तु मन्यामहे --व्रतो ब्रह्मचर्यनियमः । तद्विषये

तेन वा परम् -- उत्कृष्टम् । तपेन --ब्रह्मध्यानादिना रञ्जितकौशिकम् इति ।

यद्वा-तप ऐश्वर्ये इति धातोः पूर्ववदचि तपेन-- ऐश्वर्येण रञ्जितकौशिकमिति वा ।

भुवनाधिपतिरप्यहं त्वया सह गच्छामीत्येतादृशं तोषं विना किं तव तोषान्तरेणेति

भावः । एतेषां शब्दानामदन्तत्वे द्विरूपकोशोऽपि संवादक:-

यथा
 

 
62
 

 
नभं तु नभसा सार्धं तपं तु तपसा सह ।
 

 
सहं तु 23¨सहसा सार्धं रजेनापि समं रजः ॥ इति ।
 

 
अथ कथम् --
 

 
पिण्डं दद्याद् गयाशिरे इति वायव्यपुराणे प्रयोगः ।

कुण्डलोद्धृष्टगण्डानां कुमाराणां तरस्विनाम् ।
 

 
निचकर्त शिरान् द्रौणि र्नालेभ्य इव पङ्कजान् ॥ इति महाभारते च ।

अन असुन्-प्रकरणे श्रयतेः स्वाङ्गे शिरः किच्च (उणादि-६३६) इति सूत्रेण

सान्तशब्दस्यैव व्युत्पादनात् । कथं प्रकृते अदन्तत्वमेतस्य इति चेत् --अत्र केचित्

छन्दोवत् पुराणानि भवन्ति इत्याश्रित्य साधुत्वमदन्तत्वेऽपीत्याहुः । वस्तुतस्तु

तस्मिन्नेव सूत्रे शूहिंसायामिति धातोर्घञयें कप्रत्यये (घञर्थे कविधानमिति

वात्तिकेन) ॠत इद्धातोः (७-१-१००) इत्यनेन इकारे अदन्तोऽपि शिरशब्दः

इति
 

 
237,
 

 
'भाष्यज्ञाः । अत एव विक्रमादित्यकोशेऽपि
 

 
शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा -- इति ।
 

 
235. See T.B. on Unādi-628. It has the discussion on these words. It

does not have illustrations for adanta-forms. Our author supplies the quota-

tions for the uses.
 

 
236. nabhas (m) is śrāvaņamāsa; and also the sky (neuter); tapas is austerity;

sahas is mārgaśīrşamāsa; rajas is dust.
 

 
In all these meanings the words are thus shown to be possible with a-stems

also.
 

 
237. See T.B. on Unādi-636. It has the discussion. Probably it was in

the P.M. too.