This page has been fully proofread once and needs a second look.

शब्दस्य दर्शनात् । कथमत्र अदन्तता इति चेत्--सत्यम् । अत एव किं जन्मनेति
पठनीयमिति केचित् । अन्ये तु इषियुधीत्यादिसूत्रेण (उणादि-१४२) विहितस्य
मक्-प्रत्ययस्य जन जनने इति धातोः आश्रयणात् जन्मम् इत्यप्यकारान्तं [^232]भवती-
त्याहुः । जनुर्जननजन्मानि इत्यमरोऽपि नकारान्ताकरान्तोभयसाधारणः ।
न चात्र नान्तत्वमेवास्त्विति वाच्यम् । साहचर्याच्च कुत्रचित् (अमरस्य) इति
परिभाषया रूपसाहचर्यात् अदन्तसाहचर्यस्यापि क्वचिद् विवक्षितत्वात् ।
अर्चिर्हेतिः शिखा स्त्रियाम् इत्यत्र हेतिशब्दसाहचर्याद् अर्चिषः इकारान्तत्वमपि
यथाङ्गीक्रियते तद्वत् । तस्मात् जननसाहचर्यात् जन्मशब्दस्य अदन्तत्वमपीति
रायमकुटादयः । यन्मेदुरम् इत्यत्न यच्छब्दस्य यद्वेत्यर्थः ।
 
अथ कथम्--
कृतः पुरस्कृत्य ततो नलेन स प्रदक्षिणस्तत्क्षणमाशुशुक्षणिः ।
(नैषधे १६-३५ )
 
इति श्रीहर्षप्रयोगः । अत्र आङि शुषेः सनश्छन्दसि (उणादि-२६०) इति
साधितस्य छन्दोविषयत्वात् कथमत्र लोके प्रयोग इति चेत्--उणादयो बहुलम्
(३-३-१) बहुलग्रहणाद् भाषायामपि प्रयुज्यते इति ।
 
अथ कथम्--
छर्द्यतीसारशूलवान् इति वैद्यशास्त्रम् । अर्चिशुचीत्यादिसूत्रेण (उणादि-२६५)
विहितस्य इसि-प्रत्ययस्य सत्त्वात् प्रातिपदिकस्य (छर्दिस् इति ) सान्तत्वस्यैव
युक्तत्वात् इति चेत्--अत्राहुः । नायमिसिप्रत्ययान्ताः । किं तु अच इः
(उणादि-५७८) इतिसूत्रेण इप्रत्यये (रविरितिवत् ) इदन्तोऽप्ययमिति न दोष[^233]
इति ।
 
अथ कथम् --
गोपीकुचामर्दनकुङ्क माङ्गं गोरक्षकं गोरजधूसराङ्गम्--इति, प्रयोगः ।
प्रचकितस्मितमुग्धमुखस्तदा निजगुरुं समवैक्षत राघवः ।
अहह मामपि वेत्सि वरानने व्रतपरं तपरञ्जितकौशिकम् ॥
 
इति च रघूत्तमे [^234]भ्रातृचरणाः । तथा
सहस्य प्रथमे मासि वाहयेद् दोषसंचयम् इति च ।
 
[^232]. See T.B. on Uṇādi-142. This point is mentioned there. Probably it was in the P.M. too.
 
[^233]. This is noted as such by Bhaṭṭoji. See S.K. on Uṇādi-265.
 
[^234]. Raghūttama seems to be the name of a kāvya. It is a pity that the name
of the brother, the author of this, is not mentioned.