This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
गृधंध्रं हत्वा जटायुषम् (रामायणे ) इतिवत् सकारान्तेन प्रातिपदिकेन

भवितव्यम् । न तु उकारान्तेन । तर्हि कथमेते प्रयोगा युज्यन्ते । एवं सन्देहे

समाधानमिदं वदन्ति । छन्दसीण इति सूत्रविहितम् उण्-प्रत्ययं बाहुलकाद्

भाषायामप्याश्रित्य उकारान्त आयुशब्दः साधनीय इति केचिदाहुः । दर्शितो

भट्टिप्रयोगः
 

 
तटी-मब्धेः पद्भ्याम-भजत जटायोः प्रथमजः ( रामचरिते ६-४१ )

इत्यभिनन्दप्रयोगश्च अस्मिन्नर्थे प्रमाणमिति स्वीकुर्वन्ति । अन्ये तु जटां याति

प्राप्नोति इति विगृह्य मृगय्वादयश्च (उणादिसूत्रम् - -३७) इत्यनेन कु-प्रत्यये

मृगयु-वत् आयुपदम् उकारान्तं साधनीय"[^227] मित्याहुः । एतेन आयुर्जीवितकालो ना

इत्यमरः ( उकारान्त आयुशब्द इत्यङ्गीकारेऽपि) जटायुषा जटायुश्ञ्च विद्यादा
युं
तथायुषा इति द्विरूपकोशश्च व्याख्यातो भवति ।
 

 
अथ कथम् --
 

विरुते कलकण्ठस्य मरुते वाति शीतले ।

त्वरते मानसं यूनां सुरते सुखसागरे ॥

 
इति कस्यचित् प्रयोगः ।
 

 
कोयं वाति स दाक्षिणात्यमरुतः इति [^227 a]कवि राजस्य च । अन

मृग्रोरुतिः ( उणादिसूत्रम्-४) इत्यनेन उति-प्रत्यये तान्तशब्दस्यैव सिद्धिः ।

नत्वदन्तस्य । तत् कथमीदृशप्रयोग इति चेत् -- --नात्राहुः । प्रमाद एवायमिति

केचित् । दाक्षिणात्यपवन इति पाठः कल्पनीय इति च । अन्ये तु

अदन्तोऽप्यव्युत्पन्नोऽस्ति मरुतशब्दः । तथा च विक्रमादित्यकोशे
 

मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत् इति ।
 

[^2
28 ]संसारावर्तश्च । अत एव
 

हेमन्तदिवस इव समरुतः कोकिलः
 
59
 

 
इति केषांचित् श्लेषश्च संगच्छते । अत्र कोकिलपक्षे समो रुतः शब्दो

यस्येति पक्षान्तरे च मरुतेन [^229] सहित इति व्याख्या ।
 

 
अथ कथम् --
 
--
प्रतिपदमिति वारं वारमात्घ्राय गन्धं

मधुमथनमहेला सा सखीरन्वपृच्छत ॥
 

(पारिजातहरणचम्प्वाम्- २-३५ )
 

 
[^
227]. See T.B. under the Unādisūtra 2. Perhaps the P.M. too had the dis-

cussion. Monier Williams also notes the two forms of aāyu and aāyus.

 
[^
227-aa]. I do not find it in the Rāghavapāndṇḍaviīya.
 

 
[^
228]. All the MSS read clearly Samsārāvarta. It was probably a lexicon.

It is not clear to me.
 

 
[^
229]. Monier Williams also notes maruta (a-stem) in the sense of marut.