This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
गृधं हत्वा जटायुषम् (रामायणे ) इतिवत् सकारान्तेन प्रातिपदिकेन
भवितव्यम् । न तु उकारान्तेन । तहि कथमेते प्रयोगा युज्यन्ते । एवं सन्देहे
समाधानमिदं वदन्ति । छन्दसीण इति सूत्रविहितम् उण्-प्रत्ययं बाहुलकाद्
भाषायामप्याश्रित्य उकारान्त आयुशब्दः साधनीय इति केचिदाहुः । दशितो
भट्टिप्रयोगः
 
तटी-मब्धेः पद्भ्याम-भजत जटायोः प्रथमजः ( रामचरिते ६-४१ )
इत्यभिनन्दप्रयोगश्च अस्मिन्नर्थे प्रमाणमिति स्वीकुर्वन्ति । अन्ये तु जटां याति
प्राप्नोति इति विगृह्य मृगय्वादयश्च (उणादिसूत्रम् - ३७) इत्यनेन कु-प्रत्यये
मृगयु-वत् आयुपदम् उकारान्तं साधनीय"मित्याहुः । एतेन आयुर्जीवितकालो ना
इत्यमरः ( उकारान्त आयुशब्द इत्यङ्गीकारेऽपि) जटायुषा जटायुश्च विद्यादा
तथायुषा इति द्विरूपकोशश्च व्याख्यातो भवति ।
 
अथ कथम् --
 
विरुते कलकण्ठस्य मरुते वाति शीतले ।
त्वरते मानसं यूनां सुरते सुखसागरे ॥
इति कस्यचित् प्रयोगः ।
 
कोयं वाति स दाक्षिणात्यमरुतः इति 27 कवि राजस्य च । अन
मृग्रोरुतिः ( उणादिसूत्रम्-१४) इत्यनेन उति-प्रत्यये तान्तशब्दस्यैव सिद्धिः ।
नत्वदन्तस्य । तत् कथमीदृशप्रयोग इति चेत् -- अनाहुः । प्रमाद एवायमिति
केचित् । दाक्षिणात्यपवन इति पाठः कल्पनीय इति च । अन्ये तु
अदन्तोऽप्यव्युत्पन्नोऽस्ति मरुतशब्दः । तथा च विक्रमादित्यकोशे
 
मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत् इति ।
 
28 संसारावर्तश्च । अत एव
 
हेमन्तदिवस इव समरुतः कोकिलः
 
59
 
इति केषांचित् श्लेषश्च संगच्छते । अत्र कोकिलपक्षे समो रुतः शब्दो
यस्येति पक्षान्तरे च मरुतेन 229 सहित इति व्याख्या ।
 
अथ कथम् --
 
प्रतिपदमिति वारं वारमात्राय गन्धं
मधुमथनमहेला सा सखीरन्वपृच्छत ॥
 
(पारिजातहरणचम्प्वाम्- २-३५ )
 
227. See T.B. under the Unādisūtra 2. Perhaps the P.M. too had the dis-
cussion. Monier Williams also notes the two forms of ayu and ayus.
227-a. I do not find it in the Rāghavapāndaviya.
 
228. All the MSS read clearly Samsārāvarta. It was probably a lexicon.
It is not clear to me.
 
229. Monier Williams also notes maruta (a-stem) in the sense of marut.