This page has been fully proofread once and needs a second look.

अथ कथम्--
पीयूषाश्रपणं जगत्त्रयदृशामालातलेखालवो
विश्वोन्मायहुताशनस्य ककुभामुद्घाटनी कुञ्चिका । (अनर्घराघवे ७-८३)
 
इति मुरारिः । अत्र ण्यासश्रन्थो युच् (३-३-१०७) इति सूत्रेण युच्-प्रत्यये
उद्घाटनीति रूपमिति वक्तव्यम् । तत्र घटधातोर्घटादयो । मितः इत्यनेन मित्त्वात्
मितां ह्रस्वः (६-४-९२) इत्यनेन ह्रस्वे उद्घटनीति स्यात्--इति चेत्--
सत्यम् । नेदं घट चेष्टायाम् इत्यस्य रूपम् । किं तु घट संघाते इति चौरादिकस्य ।
तस्यैव मित्त्वार्थं घटादावनुवाद इति तु न भ्रमितव्यम् । तत्र नान्ये मितोऽहेतो
(चुरादौ गणसूत्रम्-१९८) इत्यनेन निषेधात् । एतेन
"प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव" (किरातार्जुनीये २-४६)
इति भारविः
कमलवनोद्घाटनं कुर्वते ये (सूर्यशतके २)
 
इति मयूरः
उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः
 
इत्यमरश्च व्याख्याताः ।
 
अथ कथम्--
 
चापे तातजटायुजीवितकथापर्यन्तधूमायित-
क्रोधोत्पीडनिपीतशोकजडिमा दृष्टिस्तु विश्राम्यति ॥
(अनर्घराघवे ५- १२)
 
इति मुरारिप्रयोगः ।
मा वधिष्ठा जटायुं माम् (भट्टिकाव्य ६-४१)
 
इति भट्टिप्रयोगः ।
तातो मद्विरहाग्निदग्धहृदयः प्राणान् परित्यक्तवान्
कान्तारेऽपि जटायुनापि मरणं प्राप्तं मदर्थे तथा ।
 
इति [^225]रामविजये च ।
वायुना जगदायुना
 
इति [^226]वर्णविवेकश्च । अत्र जटा आयुरस्येति विग्रहे छन्दसीणः (उणादि-
सूत्रम्-२) इति विहितस्य उण्-प्रत्ययस्य छन्दोविषयत्वात् एतेर्णिच्च (उणादि-
सूत्रम्-२७५) इतिविहितः उसि-प्रत्यय एव युक्तः । ततश्च
 
[^225]. I am unable to get any information about the work Rāmavijaya or
the author.
 
[^226].] This Varṇaviveka is mentioned in the T.B. too (unādi-2-&-94). It
is not clear which work is meant by this.