This page has not been fully proofread.

58
 
अथ कथम् -
 
--
पीयूषाश्रपणं जगत्त्रयदृशामालातलेखालवो
 

विश्वोन्मायहुताशनस्य ककुभामुद्घाटनी कुञ्चिका । ( अनर्घराघवे ७-८३)

 
इति मुरारिः । अत्र ण्यासश्रन्थो युच् ( ३-३ - -१०७) इति सूत्रेण युच्-प्रत्यये

उद्घाटनीति रूपमिति वक्तव्यम् । तत्र घटधातो र्घटादयो । मितः इत्यनेन मित्त्वात्

मितां ह्रस्वः ( ६-४-९२) इत्यनेन ह्रस्वे उद्घटनीति स्यात्--इति चेत् --
--
सत्यम् । नेदं घट चेष्टायाम् इत्यस्य रूपम् । किं तु घट संघाते इति चौरादिकस्य ।

तस्यैव मित्त्वार्थं घटादावनुवाद इति तु न भ्रमितव्यम् । तत्र नान्ये मितोऽहेतो

( चुरादौ गणसूत्रम् - -१९८) इत्यनेन निषेधात् । एतेन
 

"प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव" (किरातार्जुनीये २-४६)

इति भारविः
 

कमलवनोद्घाटनं कुर्वते ये ( सूर्यशतके २ )
 

 
इति मयूरः
उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः
 
इति मयूरः
 

 
इत्यमरश्च व्याख्याताः ।
 

 
अथ कथम् --
 
--
 
चापे तातजटायुजीवितकथापर्यन्तधूमायित-

क्रोधोत्पीडनिपीतशोकजडिमा दृष्टिस्तु विश्राम्यति ॥
 

(अनर्घराघवे ५- १२)
 
इति मुरारिप्रयोगः ।
 

मा वधिष्ठा जटायुं माम् (भट्टिकाव्य ६-४१ )
 

 
इति भट्टिप्रयोगः ।
 

 
• साहित्यकण्टकोद्धारः
 

 
तातो मद्विरहाग्निदग्धहृदयः प्राणान् परित्यक्तवान्

कान्तारेऽपि जटायुनापि मरणं प्राप्तं मदर्थे तथा ।
 

 
इति 225

रामविजये च ।
 
( अनर्घराघवे ५- १२ )
 

 
 
 
वायुना जगदायुना
 

 
( उणादि-

इति 226 वर्णविवेकश्च । अत्र जटा आयुरस्येति विग्रहे छन्दसीण:
णः
सूत्रम्-२) इति विहितस्य उण्-प्रत्ययस्य छन्दोविषयत्वात् एतेणिच्च (उणादि-

सूत्रम्-२७५) इतिविहितः उसि-प्रत्यय एव युक्तः । ततश्च
 

 
• 225. I am unable to get any information about the work Rāmavijaya or

the author.
 

 
226. This Varnaviveka is mentioned in the T.B. too (unādi-2-&-94). It

is not clear which work is meant by this.