This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
इति कालिदासः । अत्र नेर्विश:शः (१-३-१७) इति सूत्रेण निपूर्वस्य विशते-

रात्मनेपदविधानात् शानचा भाव्यम् (निविशमानाम् इति) इति चेत् -
--
नात्राहुः । प्रमाद एवायमिति बहवः । अङ्गानि [^220 ]विशतीं भयात् इति वा प्रामा-

णिकपाठ इति ।
 

 
अथ कथम्-
-
निघ्नानं शात्रवान् रामं कथं त्वं नावगच्छसि (भट्टिकाव्ये ५ -८१)

इति भट्टिः । हन्तेः परस्मैपदित्वात् कथमत्र शानच् इति चेत्--नायं शानच्

प्रत्ययः । किं तु ताच्छील्यवयोवचनशक्तिषु चानश् (३-२-१२) इतिसूत्रेण

ताच्छील्याद्यर्थे विहितः [^221 ]शक्त्यर्थकोऽत्र चानश् । अयं हि परस्मैपदिनोऽपि

संभवति । एतेन
 
57
 

 
शिवाग्नौ 222 [^222]जुह्वाना सुरभिघृतधाराहुतिशतैः (प-३३) इति
सौन्दर्य -
-
लहरीप्रयोगः ( जुह्वाना इति) व्याख्यातः ।
 

 
अथ कथम्-
-
कथं न गन्ता विफलीभविष्णुतां
 

स्वयंवरः साध्वि समृद्धिमानपि ॥ (नैषधे -८१ )
 

 
इति श्रीहर्षः । भूष्णुर्भविष्णुर्भविता इत्यमरश्च । भुवश्च (३-२-१३८)

इतिसूत्रेण विहितस्य इष्णुच्-प्रत्ययस्य छन्दोविषयत्वात् कथमत्र लोके प्रयोगः इति

चेत् -- --प्रमाद एवेदृशप्रयोग 229 [^223]इत्याहुः ।
 

 
अथ कथम् --
 

वाचमूचे सुधाधारां मधुरां मधुसूदनः (चम्पूरामायणे बालकाण्डे २२ - -)

इति । अत्र हि अनुदात्तेतश्च हलादे:देः (३-२-१४) इति विहितस्य युच्-प्रत्ययस्य

सूददीपदीक्षश्च (३-२-१५३) इत्यनेन सूदधातोः प्रतिषेधात् कथं मधुसूदन इति

प्रयोग इति चेत् --सत्यम् । नायं युच् । किं तु नन्दिग्रहीत्यादिसूत्रेण (३-१-१३४)

विहितः ल्युप्रत्ययः [^224 ]इत्याहुः ।
 

 
[^
220]. See P.M. & T.B. on 1.3.17.
 

 
[^
221]. See Jayamangalā and Mallinātha on Bhattṭṭi on V.81.
 
222

 
[^222]
. Some printed editions have juhvantah. The commentaries too on the

Saundaryalahariī read juhvantah. See Lakşmiīdharā and Arunāmodiniī (pp. 160 &

161; Ganesh and Co., Madras, 1957). The commentary Saubhāgyavardhanī
ment
i
mentione
ons about the reading juhvanānāḥ as suggested by some. Bhattṭṭoji justi-

fies it as correct. It is not clear who are meant by this. See P. M. & T.B.

under the root Hu.
 

 
[^
223]. See Padamanñjariī and P.M. on 3.2.138.
 

 
[^
224]. See S.K. on 3.2.153, and on 3.1.134.