This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
इति कालिदासः । अत्र नेविश: (१-३-१७) इति सूत्रेण निपूर्वस्य विशते-
रात्मनेपदविधानात् शानचा भाव्यम् (निविशमानाम् इति) इति चेत् -
अनाहुः । प्रमाद एवायमिति बहवः । अङ्गानि 220 विशतीं भयात् इति वा प्रामा-
णिकपाठ इति ।
 
अथ कथम्-
निघ्नानं शात्रवान् रामं कथं त्वं नावगच्छसि (भट्टिकाव्ये ५ ८१)
इति भट्टिः । हन्तेः परस्मैपदित्वात् कथमत्र शानच् इति चेत्-नायं शानच्
प्रत्ययः । किं तु ताच्छील्यवयोवचनशक्तिषु चानश् (३-२-१२६) इतिसूत्रेण
ताच्छील्याद्यर्थे विहितः 221 शक्त्यर्थकोऽव चानश् । अयं हि परस्मैपदिनोऽपि
संभवति । एतेन
 
57
 
शिवाग्नौ 222 जुह्वाना सुरभिघृतधाराहुतिशतैः (प-३३) इति सौन्दर्य -
लहरीप्रयोगः ( जुह्वाना इति) व्याख्यातः ।
 
अथ कथम्-
कथं न गन्ता विफलीभविष्णुतां
 
स्वयंवरः साध्वि समृद्धिमानपि ॥ (नैषधे ६-८१ )
 
इति श्रीहर्षः । भूष्णुर्भविष्णुर्भविता इत्यमरश्च । भुवश्च (३-२-१३८)
इतिसूत्रेण विहितस्य इष्णुच्-प्रत्ययस्य छन्दोविषयत्वात् कथमन लोके प्रयोगः इति
चेत् -- प्रमाद एवेदृशप्रयोग 229 इत्याहुः ।
 
अथ कथम् --
 
वाचमूचे सुधाधारां मधुरां मधुसूदनः (चम्पूरामायणे बालकाण्डे २२ प - )
इति । अत्र हि अनुदात्तेतश्च हलादे: (३-२-१४६) इति विहितस्य युच्-प्रत्ययस्य
सूददीपदीक्षश्च (३-२-१५३) इत्यनेन सूदधातोः प्रतिषेधात् कथं मधुसूदन इति
प्रयोग इति चेत् --सत्यम् । नायं युच् । किं तु नन्दिग्रहीत्यादिसूत्रेण (३-१-१३४)
विहितः ल्युप्रत्ययः 224 इत्याहुः ।
 
220. See P.M. & T.B. on 1.3.17.
 
221. See Jayamangalā and Mallinātha on Bhatti on V.81.
 
222. Some printed editions have juhvantah. The commentaries too on the
Saundaryalahari read juhvantah. See Lakşmidharā and Arunāmodini (pp. 160 &
161; Ganesh and Co., Madras, 1957). The commentary Saubhāgyavardhani
mentiones about the reading juhvanāḥ as suggested by some. Bhattoji justi-
fies it as correct. It is not clear who are meant by this. See P. M. & T.B.
under the root Hu.
 
223. See Padamanjari and P.M. on 3.2.138.
 
224. See S.K. on 3.2.153, and on 3.1.134.