This page has been fully proofread once and needs a second look.

अथ कथम्--
पर्यङ्कतापन्नसरस्वदङ्कां लङ्कापुरीमप्यभिलाषि चित्तम् (नैषधे ३-६६)
इति श्रीहर्षः ।
मेरोर्मेदुरयन्ति संमदमधःसंपातिभिर्ज्योतिषाम्
(अनर्घराघवे ७-५४)
 
इति मुरारिश्च । अत्राभिलाषीत्यादौ सुप्यजातौ णिनिस्ताच्छील्ये (३-२-७८)
इत्यनेन णिनिप्रत्यय इति वक्तव्यम् । तच्च न घटते । तथा हि अत्र वृत्तिकारः
(३-२-७८) इत्थं व्याचष्टे--सुपीति वर्तमाने पुनः सुब्ग्रहणमुपसर्गनिवृत्त्यर्थम् ।
उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम् इति समनन्तरवार्त्तिकं व्याचक्षाणौ न्यास-
कारहरदत्तौ च इत्थमाहतुः--सुब्ग्रहणस्य चोपसर्गनिवृत्त्यर्थत्वादुपसर्गे न प्राप्नोतीति
कृत्वा (सुधात्वर्थं) वचनमिदमारब्धमिति । अन्यधातुविषये तु सत्युपसर्गे णिनेर-
प्रयोगो ज्ञेयः इति । ततश्च अभिलाषि-संपातीत्यादौ कथं णिनेः प्रयोग इति चेत्--
अत्र वदन्ति[^217] । सोपसर्गादपि णिनिरिति निष्कर्षाद् वृत्तिकारादिमतमुपेक्ष्यमिति ।
तेन नात्र दोषः संभावनीयः ।
 
अथ कथम्--
ततस्तनयविप्लवं समवलोक्य लोकेश्वरः
प्रकोपदहनार्चिषा दश दिशः समुज्ज्वालयन्
 
इति भृगुवंशे[^218] । समुज्ज्वालयन्नित्यत्र णिजन्ताज्ज्वल दीप्ताविति धातोः
शतृप्रत्ययो वक्तव्यः । तत्र ज्वल-ह्वल-ह्यल-नमोऽनुपसर्गाद् वा (१८९) इति घटा-
द्यन्तर्गतगणसूत्रेण उपसर्गविशिष्टस्य नित्यं मित्संज्ञाविधानात् मितां ह्रस्वः
(६-४-९२) इत्यनेन उपधायाः ह्रस्वप्राप्तया समुज्ज्वलयन्नित्येव रूपं स्यादिति
चेत्--अत्राहु:[^219] । ज्वलनं ज्वालः घञन्ते रूपम् । ततो घञन्तात् तत् करोति
तदाचष्टे इति (चुराद्यन्तर्गतेन-२०४) गणसूत्रेण णिचि कृते ततः शतरि समुज्ज्वा-
लयन्निति रूपं साधनीयमिति ।
 
अथ कथम्--
इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥ (रघुवंशे १२-३८ )
 
[^217]. This is a reference to Bhaṭṭoji. He has a good discussion in his S.K.
on 3.2.78. He points out thus:
sarvathāpi sub-mātre upapade ṇiniḥ; na to anupasarge eveti siddhāntah.
This is followed by T.B. also.
 
[^218]. Except E, all the MSS. read clearly Bhṛguvaṃśe. I am unable to get
any information about the author or the work.
 
[^219]. Bhaṭṭoji raises this question in his S.K. (in Ghaṭādi) and answers thus:
kathaṃ tarhi prajvālayati unnāmayatīti. ghañantāt tat karotīti ṇau.