This page has not been fully proofread.

56
 
अथ कथम् --
 
--
पर्यङ्कतापन्नसरस्वदङ्कां लङ्कापुरीमप्यभिलाषि चित्तम् (नैषधे ३-६६)
 

इति श्रीहर्षः ।
 

मेरोमेंर्मेदुरयन्ति संमदमधःसंपातिभिर्ज्योतिषाम्
 
साहित्यकण्टकोद्धारः
 

(अनर्घराघवे ७-५४)
 

 
इति मुरारिश्च । अत्राभिलाषीत्यादौ सुप्यजातौ णिनिस्ताच्छील्ये (३-२-७८)

इत्यनेन णिनिप्रत्यय इति वक्तव्यम् । तच्च न घटते । तथा हि अत्र वृत्तिकारः

(३-२-७८) इत्थं व्याचष्टे -- --सुपीति वर्तमाने पुनः सुब्ग्रहणमुपसर्गनिवृत्त्यर्थम् ।

उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम् इति समनन्तरवार्त्तिकं व्याचक्षाणौ न्यास-

कारहरदत्तौ च इत्थमाहतुः- -सुब्ग्रहणस्य चोपसर्गनिवृत्त्यर्थत्वादुपसर्गे न प्राप्नोतीति

कृत्वा (सुधात्वर्थं) वचनमिदमारब्धमिति । अन्यधातुविषये तु सत्युपसर्गे णिनेर-

प्रयोगो ज्ञेयः इति । ततश्च अभिलाषि-संपातीत्यादौ कथं णिनेः प्रयोग इति चेत् --
--
त्र वदन्ति [^2 2 17] । सोपसर्गादपि णिनिरिति निष्कर्षाद् वृत्तिकारादिमतमुपेक्ष्यमिति ।
 

 

तेन नात्र दोषः संभावनीयः ।
 

 
अथ कथम्-
-
ततस्तनयविप्लवं समवलोक्य लोकेश्वरः
 

प्रकोपदहनार्चिषा दश दिशः समुज्ज्वालयन्
 

 
इति भृगुवंशे [^218] । समुज्ज्वालयन्नित्यत् णिजन्ताज्ज्वल दीप्ताविति धातोः

शतृप्रत्ययो वक्तव्यः । तत्र ज्वल-ह्वल-ह्यल-नमोऽनुपसर्गाद् वा (१८) इति घटा-

द्यन्तर्गतगणसूत्रेण उपसर्गविशिष्टस्य नित्यं मित्संज्ञाविधानात् मितां ह्रस्वः

(६-४-२) इत्यनेन उपधायाः ह्रस्वप्राप्तया समुज्ज्वलयन्नित्येव रूपं स्यादिति

चेत् - --नात्राहु: [^219] । ज्वलनं ज्वालः <flag>घञ्ञन्ते</flag> रूपम् । ततो <flag>घञ्ञन्तात्</flag> तत् करोति

तदाचष्टे इति (चुराद्यन्तर्गतेन-२०४) गणसूत्रेण णिचि कृते ततः शतरि समुज्ज्वा-

लयन्निति रूपं साधनीयमिति ।
 

 
अथ कथम् -
 
--
इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।
 

रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥ ( रघुवंशे १२ -३८ )
 

 
217. This is a reference to Bhattoji. He has a good discussion in his S.K.

on 3.2.78. He points out thus:
 

 
sarvathapi sub-matre upapade niniḥ; na to anupasarge eveti siddhantah.

This is followed by T.B. also.
 

 
218. Except E, all the MSS. read clearly Bhrguwamśe. I am unable to get

any information about the author or the work.
 

 
219. Bhattoji raises this question in his S.K. (in Ghatādi) and answers thus:

katham tarhi prajvälayati unnamayatiti. ghañantat tat karotīti nau.