This page has not been fully proofread.

56
 
अथ कथम् --
 
पर्यङ्कतापन्नसरस्वदङ्कां लङ्कापुरीमप्यभिलाषि चित्तम् (नैषधे ३-६६)
 
इति श्रीहर्षः ।
 
मेरोमेंदुरयन्ति संमदमधःसंपातिभिर्ज्योतिषाम्
 
साहित्यकण्टकोद्धारः
 
(अनर्घराघवे ७-५४)
 
इति मुरारिश्च । अत्राभिलाषीत्यादौ सुप्यजातौ णिनिस्ताच्छील्ये (३-२-७८)
इत्यनेन णिनिप्रत्यय इति वक्तव्यम् । तच्च न घटते । तथा हि अत्र वृत्तिकारः
(३-२-७८) इत्थं व्याचष्टे -- सुपीति वर्तमाने पुनः सुब्ग्रहणमुपसर्गनिवृत्त्यर्थम् ।
उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम् इति समनन्तरवात्तिकं व्याचक्षाणौ न्यास-
कारहरदत्तौ च इत्थमाहतुः- सुब्ग्रहणस्य चोपसर्गनिवृत्त्यर्थत्वादुपसर्गे न प्राप्नोतीति
कृत्वा (सुधात्वर्थं) वचनमिदमारब्धमिति । अन्यधातुविषये तु सत्युपसर्गे णिनेर-
प्रयोगो ज्ञेयः इति । ततश्च अभिलाषि-संपातीत्यादौ कथं णिनेः प्रयोग इति चेत् --
अन वदन्ति 2 2 7 । सोपसर्गादपि णिनिरिति निष्कर्षाद् वृत्तिकारादिमतमुपेक्ष्यमिति ।
 

 
तेन नात्र दोषः संभावनीयः ।
 
अथ कथम्-
ततस्तनयविप्लवं समवलोक्य लोकेश्वरः
 
प्रकोपदहनाचिषा दश दिशः समुज्ज्वालयन्
 
इति भृगुवंशे 218 । समुज्ज्वालयन्नित्यत्व णिजन्ताज्ज्वल दीप्ताविति धातोः
शतृप्रत्ययो वक्तव्यः । तत्र ज्वल-ह्वल-ह्यल-नमोऽनुपसर्गाद् वा (१८६) इति घटा-
द्यन्तर्गतगणसूत्रेण उपसर्गविशिष्टस्य नित्यं मित्संज्ञाविधानात् मितां ह्रस्वः
(६-४-१२) इत्यनेन उपधायाः ह्रस्वप्राप्तया समुज्ज्वलयन्नित्येव रूपं स्यादिति
चेत् - अनाहु: 219 । ज्वलनं ज्वालः घञ्ञन्ते रूपम् । ततो घञ्ञन्तात् तत् करोति
तदाचष्टे इति (चुराद्यन्तर्गतेन-२०४) गणसूत्रेण णिचि कृते ततः शतरि समुज्ज्वा-
लयन्निति रूपं साधनीयमिति ।
 
अथ कथम् -
 
इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशत भयात् ।
 
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥ ( रघुवंशे १२ -३८ )
 
217. This is a reference to Bhattoji. He has a good discussion in his S.K.
on 3.2.78. He points out thus:
 
sarvathapi sub-matre upapade niniḥ; na to anupasarge eveti siddhantah.
This is followed by T.B. also.
 
218. Except E, all the MSS. read clearly Bhrguwamśe. I am unable to get
any information about the author or the work.
 
219. Bhattoji raises this question in his S.K. (in Ghatādi) and answers thus:
katham tarhi prajvälayati unnamayatiti. ghañantat tat karotīti nau.