This page has been fully proofread once and needs a second look.

अथ कथम्--
जलगृहकवितर्दिकासुखानि स्फटिकगिरिर्गिरिशस्य निर्मिमीते
(अनर्घराघवे ७-४७)
 
इति मुरारिप्रयोगः । अत्र गिरौ शेते इति विग्रहे गिरौ डश्छन्दसि इति
वार्त्तिकेन (३-२-१५ सूत्रस्थेन) विहितस्य डप्रत्ययस्य छन्दोविषयत्वात् । तत्
कथं गिरिश इति प्रयोग इति चेत्--सत्यम् । [^207]गिरिरस्यास्तीति विग्रहे लोमादि-
पामादिपिच्छादिभ्यः शनेलच:चः (५-२-१००) इत्यनेन मत्वर्थे शप्रत्यये (लोमश
इतिवत्) गिरिश इति रूपं व्याख्येयमिति [^208]वदन्ति ।
 
अथ कथम्--
तस्य स्तनप्रणयिभिर्मुहुरेणशाबैर्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥
(रघुवंशे ९-५५)
 
इति प्रयोगः । अत्र पुरोऽग्रतोऽग्रेषु सर्तेः (३-२-१८) इतिसूत्रेण टप्रत्यये
अग्रेसर इति पदं सिद्ध्यति । तत्र हि अग्रम् अग्रेण अग्रे वा सरतीत्यर्थात् अग्रे इत्यव्यय-
पूर्वपदत्वे स्वयमेदन्तत्वम् । अग्रशब्दपूर्वपदत्वे तु तस्य एदन्तत्वं निपात्यते इति
कृत्वा अग्रेसर इति भाव्यम् । तत् कथमग्नसर इति प्रयोगः । कृत्यल्युटो बहुलम्
(३-३-११३) इति बहुलग्रहणादेत्वाभाव इति [^209]हरदत्तः समादधौ ।
 
अथ कथम्--
(गिरिस्तु कनकाचलः कति न सन्ति चाश्मव्रजाः
किटिस्तु धरणीधरः कति न सन्ति भूदारकाः ।
मरुत्तु मलयानिलः कति न सन्ति झञ्झानिलाः)
[^210]प्रभुस्तु विबुधाश्रयः कति न सन्ति <flag>कुक्षिभराः ॥</flag>
 
[^207]. See P.M. on 3.2.15. Bhaṭṭoji quotes several uses of girīśa and ex-
plains the point well. He also notes: loke ayam (giriśaśabdaḥ) taddhitānta eva.
na kṛdantaḥ. evaṃ ca giriśaśabdaṃ prayuñjānānāṃ kavīnāṃ na ko'py aparādhaḥ.
girau śete iti vyācakṣāṇānāṃ tu pramāda ity avadheyam.
Under 3.2.15 Kaiyaṭa quotes:
vairavāsiṣṭhagiriśāḥ etc. (Vākyapadīya II.173)
See Nageśa's Uddyota for the meaning of the kārikā.
 
[^208]. Durghaṭavṛtti on 3.2.15 says:
chāndasā api kvacid bhāṣāyām prayujyante iti rakṣitah. (p. 65).
 
[^209]. See Padamañjarī, Ś.K. & S.K. On 3.2.18.
 
[^210]. This is the reading in MS G and in the T.B.
MS. A reads: prabhur budhajanāśrayāḥ.
MS. C reads: tanur budha-etc.
MS. F reads: prabhur bahudhanāśrayaḥ.
In others the portion is missing.