This page has not been fully proofread.

54
 
अथ कथम्
 
-
 
अथ कथम्-
तस्य
 
साहित्यकण्टकोद्धारः
 
जलगृहकविर्तादकासुखानि स्फटिकगिरिगिरिशस्य
 
इति मुरारिप्रयोगः । अत्र गिरौ शेते इति विग्रहे गिरौ डश्छन्दसि इति
वात्तिकेन (३-२-१५ सूत्रस्थेन) विहितस्य डप्रत्ययस्य छन्दोविषयत्वात् । तत्
कथं गिरिश इति प्रयोग इति चेत् -सत्यम् । 207 गिरिरस्यास्तीति विग्रहे लोमादि-
पामादिपिच्छादिभ्यः शनेलच: (५-२-१००) इत्यनेन मत्वर्थे शप्रत्यये (लोमश
इतिवत्) गिरिश इति रूपं व्याख्येयमिति 208 वदन्ति ।
 
निमिमीते
( अनर्घराघवे ७-४७)
 
स्तनप्रणयिभिर्मुहुरेणशाबैर्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगवतकृष्णसारम् ॥
 
(रघुवंशे ६-५५ )
 
इति प्रयोगः । अत्र पुरोऽग्रतोऽग्रेषु सर्तेः (३-२-१८) इतिसूत्रेण टप्रत्यये
अग्रेसर इति पदं सिद्धयति । तत्र हि अग्रम् अग्रेण अग्रे वा सरतीत्यर्थात् अग्रे इत्यव्यय-
पूर्वपदत्वे स्वयमेदन्तत्वम् । अग्रशब्दपूर्वपदत्वे तु तस्य एदन्तत्वं निपात्यते इति
कृत्वा अग्रेसर इति भाव्यम् । तत् कथमग्नसर इति प्रयोगः । कृत्यल्युटो बहुलम्
(३-३- ११३) इति बहुलग्रहणादेत्वाभाव इति 209 हरदत्तः समादधौ ।
 
अथ कथम्-
[1 (गिरिस्तु कनकाचलः कति न सन्ति चाश्मव्रजाः
 
किटिस्तु धरणीधरः कति न सन्ति भूदारकाः ।
मरुत्तु मलयानिलः कति न सन्ति झञ्झानिलाः)
 
210 प्रभुस्तु विबुधाश्रयः कति न सन्ति कुक्षिभराः ॥
 
207. See P.M. on 3.2.15. Bhattoji quotes several uses of giriśa and ex-
plains the point well. He also notes: loke ayam (giriśaśabdah) taddhitānta eva.
na krdantaḥ. evam ca girišaśabdam prayuñjānānām kavinam na ko'py aparadhah.
girau fete iti vyacakṣāṇānām tu pramada ity avadheyam.
 
Under 3.2.15 Kaiyata quotes:
 
MS. F reads: prabhur bahudhanāśrayah.
In others the portion is missing.
 
vairavasişthagiriśaḥ etc. (Vakyapadiya II.173 )
See Nagesa's Uddyota for the meaning of the kärikā.
208. Durghatavrtti on 3.2.15 says:
 
chāndasā api kvacid bhāşāyām prayujyante iti rakşitah. (p. 65).
209. See Padamañjari, S.K. & S.K. On 3.2.18.
210. This is the reading in MS G and in the T.B.
MS. A reads: prabhur budhajanāśrayāh.
 
MS. C reads: tanur budha-etc.