This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
अथ कथम्-
अथ कृत्-प्रत्ययानुसारेण लिख्यते
 

 
अथ कथम्--
तं देशं विशति विभाण्डकस्य सूनौ

संदेशं बलमथनस्य संदधानः ।

पर्जन्यः प्रकटमगर्जदम्बरस्थो
 

र्ष्टारं तमभिननन्द पौरबृन्दम् ॥

( उदारराघवे २ - - )
 
53
 

 
इत्यत्र वर्ष्टारमिति प्रयोगः । वृषु सेचने इति धातोः (भौवादिकस्य) ण्वुल्-

तृचौ (३-१-१३३) इति सूत्रेण तृचि कृते आर्धधातुकस्येड् वलादे:देः (७-२-३५ )

इत्यनेन इडागमे वर्षितारमिति स्यादिति चेत् - --सत्यम् । प्रमाद एवायमित्येके ।

केचित्तु--निलोट्--इत्येव सिद्धे आनि लोट् (८-४-१६) इति सूत्रकरणात्

ज्ञापकात् आगमशास्त्रमनित्यम् [^205] । ततश्च प्राप्तोऽपि इडागमो न भवतीति

समादधुः ।
 

 
अथ कथम्-
-
मयाङ्ग पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान् ।

न मह्यमनोत्रोत्तरधारयस्य किं ह्रियेऽपि सेयं भवतोऽधमर्णता ॥
 

(नैषधे -३ )
 

 
इति श्रीहर्ष प्रयोगः । अनोत्रोत्तरं धारयतीति विग्रहे अनुपसर्गाल्लिम्पविन्दधारी-

तिसूत्रं (३-१-१३८) विप्रतिषेधे परं कार्यम् (१-४-२) इतिपरिभाषासूत्रबलाद्

बाधित्वा कर्मण्यण् (३-२-१) इतिसूत्रविहितः अण्प्रत्ययः प्राप्नोति । ततश्च

सूत्रधारादिवद् रूपं स्यात् इति चेत् --सत्यम् । अनात्राहुः । कर्मणः शेषत्वविवक्षायाम्

अणः अप्राप्त्या अनुपसर्गेतिसूत्रविहिते शे (प्रत्यये) कृते शेषषष्ठ्यन्तेन समासो

भविष्यतीति [^206 ]
 

 
[^
205]. The Nyāsakāra notes this Paribhāsā on 8.4.16, and quotes the usage:

api śākam pacaānasya sukhā vai maghavan grhah.
 
ṛhāḥ.
 
See also the P.M., & T.B. on 8.4.16. Durghatavrtti also notes this Pari-

bhāşā on 7.2.35. These writers give the example: sāgaram tartukāmasya also.
 

 
Naāgesa in his Paribhäşāṣendusekhara rejects this Paribhäşăāṣā. There is no re-

ference to this rejection by our author. See also Note 57, and the Introduc-
tion.
 

tion.
 
[^
206. S]. Ś.K. on 3.1.138 has the discussion on this. Bhattṭṭoji also notes: etena

gangādhara-bhūdhara-jaladharādayo vyākhyātāh. See also S.K. on 3.2.1. See

Mallinātha on Māgha IV. 18. See also Note 216.