2023-04-10 05:19:49 by ambuda-bot
This page has not been fully proofread.
साहित्यकण्टकोद्धारः
अथ कथम्-
अथ कृत्-प्रत्ययानुसारेण लिख्यते
तं देशं विशति विभाण्डकस्य सूनौ
संदेशं बलमथनस्य संदधानः ।
पर्जन्यः प्रकटमगर्जदम्बरस्थो
वरं तमभिननन्द पौरबृन्दम् ॥
( उदारराघवे २ - ५ )
53
इत्यत्र वरमिति प्रयोगः । वृषु सेचने इति धातोः (भौवादिकस्य) ण्वुल्-
तृचौ (३-१-१३३) इति सूत्रेण तृचि कृते आर्धधातुकस्येवलादे: (७-२-३५ )
इत्यनेन इडागमे वर्षितारमिति स्यादिति चेत् - सत्यम् । प्रमाद एवायमित्येके ।
केचित्तु – निलोट् — इत्येव सिद्धे आनि लोट् (८-४-१६) इति सूत्रकरणात्
ज्ञापकात् आगमशास्त्रमनित्यम् 205 । ततश्च प्राप्तोऽपि इडागमो न भवतीति
समादधुः ।
अथ कथम्-
मयाङ्ग पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान् ।
न मह्यमनोत्तरधारयस्य किं ह्रियेऽपि सेयं भवतोऽधमर्णता ॥
(नैषधे ६-३ )
इति श्रीहर्ष प्रयोगः । अनोत्तरं धारयतीति विग्रहे अनुपसर्गाल्लिम्पविन्दधारी-
तिसूत्रं (३-१-१३८) विप्रतिषेधे परं कार्यम् (१-४-२) इतिपरिभाषासूत्रबलाद्
बाधित्वा कर्मण्यण् (३-२-१) इतिसूत्रविहितः अण्प्रत्ययः प्राप्नोति । ततश्च
सूत्रधारादिवद् रूपं स्यात् इति चेत् --सत्यम् । अनाहुः । कर्मणः शेषत्वविवक्षायाम्
अणः अप्राप्त्या अनुपसर्गेतिसूत्रविहिते शे (प्रत्यये) कृते शेषषष्ठ्यन्तेन समासो
भविष्यतीति 206 ।
205. The Nyāsakāra notes this Paribhāsā on 8.4.16, and quotes the usage:
api śākam pacanasya sukhā vai maghavan grhah.
See also the P.M., & T.B. on 8.4.16. Durghatavrtti also notes this Pari-
bhāşā on 7.2.35. These writers give the example: sāgaram tartukāmasya also.
Nagesa in his Paribhäşendusekhara rejects this Paribhäşă. There is no re-
ference to this rejection by our author. See also Note 57, and the Introduc-
tion.
206. S.K. on 3.1.138 has the discussion on this. Bhattoji also notes: etena
gangādhara-bhūdhara-jaladharādayo vyākhyātāh. See also S.K. on 3.2.1. See
Mallinātha on Māgha IV. 18. See also Note 216.