2023-04-27 07:41:37 by ramamurthys
This page has been fully proofread once and needs a second look.
इतिसूत्रेण प्राप्तेऽप्यात्मनेपदे निगरणचलनार्थेभ्यश्च (१-३-८७) इत्यनेन भक्षणा-
र्थानां परस्मैपदस्यैव नियमेन विधानमिति स्थितिः । अदेः प्रतिषेधः इति
वार्त्तिकेन केवलमद भक्षणे इत्यस्यैव तत्प्रतिषेधः । तेन आङपूर्वस्य चमेः परस्मै-
पदमेव युक्तमिति चेत्
तु[^201] आचामय इति लोडन्तं <flag>भङक्त्वा </flag>किं नाचामयेः इत्यर्थो व्याख्येय इति ।
अस्मिन् पक्षे से इति संबोधनम् । अस्य स्त्री ई । तया सह वर्तमाना से सयौ सयः ।
ततः हे से हे सलक्ष्मीके दमयन्तीत्यर्थः इति । पुनरपरे आचमनमाचामः । सोऽस्याः
अस्तीति आचामवती । ततः तत्करोतीति णिचि मतुब्लोपे च आचामयसे इति
कथंचित् साधनीयमिति
स्यादिति वाच्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परि-
भाषया लाक्षणिके न प्रवृत्तिरत्
अथ कथम्--
52
हरेर्यदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः
(नैषधे १-७०
इति श्रीहर्षः । अत्र क्रमतेः कर्मणि लुङि नोदात्तोपदेशस्य मान्तस्यानाचमेः
(७-३-३४) इत्यनेन वृद्धिनिषेधात् अक्रमि इति भवितव्यम् । तत् कथम् अक्रा-
मीति प्रयोगः इति चेत्
धातोः प्राकृतेऽर्थे णिजिष्यते इत्यनेन वा हेतुमण्णिचि वृद्धौ सत्यां क्रामीति रूपम् ।
ततः अक्रामीति [^204
[^200]. See Nārāya
[^201]. See
[^202]. This is given by Nārāya
[^203]. See Nārāya
[^204]. See T.B. on 7.3.34. The answer given here by having recourse to
nivṛttapre
P.M. at the end of