Proofing

✦

This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
इति श्रीहर्षः । अत्र कर्तत्रभिप्रायक्रियाफलविवक्षायाम् णिचश्च (१-३-७४)

इतिसूत्रेण प्राप्तेऽप्यात्मनेपदे निगरणचलनार्थेभ्यश्च (१-३-८७) इत्यनेन भक्षणा-

र्थानां परस्मैपदस्यैव नियमेन विधानमिति स्थितिः । अदेः प्रतिषेधः इति

वार्त्तिकेन केवलमद भक्षणे इत्यस्यैव तत्प्रतिषेधः । तेन आङपूर्वस्य चमेः परस्मै-

पदमेव युक्तमिति चेत् - --अत्र [^200 ]वदन्ति । प्रमाद एवायमिति केचित् इति । अन्ये

तु[^201] आचामय इति लोडन्तं <flag>भङक्त्वा </flag>किं नाचामयेः इत्यर्थो व्याख्येय इति ।

अस्मिन् पक्षे से इति संबोधनम् । अस्य स्त्री ई । तया सह वर्तमाना से सयौ सयः ।

ततः हे से हे सलक्ष्मीके दमयन्तीत्यर्थः इति । पुनरपरे आचमनमाचामः । सोऽस्याः

अस्तीति आचामवती । ततः तत्करोतीति णिचि मतुब्लोपे च आचामयसे इति

कथंचित् साधनीयमिति [^202 ] वदन्ति । न च निगरणचलनार्थेभ्यः इति निषेधः

स्यादिति वाच्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परि-

भाषया लाक्षणिके न प्रवृत्तिरत्नेरेति समाधेयम् ।
 

 
अथ कथम्--
52
 

हरेर्यदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः
 

(नैषधे १-७० )
 

 
इति श्रीहर्षः । अत्र क्रमतेः कर्मणि लुङि नोदात्तोपदेशस्य मान्तस्यानाचमेः

(७-३-३४) इत्यनेन वृद्धिनिषेधात् अक्रमि इति भवितव्यम् । तत् कथम् अक्रा-

मीति प्रयोगः इति चेत् --सत्यम् । प्रमाद एवायमिति बहवः [^203] । निवृत्तप्रेषणाद्

धातोः प्राकृतेऽर्थे णिजिष्यते इत्यनेन वा हेतुमण्णिचि वृद्धौ सत्यां क्रामीति रूपम् ।

ततः अक्रामीति [^204 ]साधनीयम् इति ।
 

 
[^
200]. See Nārāyanṇa on Naişṣadha XII.6.
 

 
[^
201]. See SŚ.K. on 1.3.87. Bhattṭṭoji notes this answer.
 

 
[^
202]. This is given by Nārāyanṇa on Naişṣadha XII.6.
 

 
[^
203]. See Nārāyanṇa on Naişṣadha I.70.
 

 
[^
204]. See T.B. on 7.3.34. The answer given here by having recourse to

nivṛttapreşanaṣaṇād dhaātoḥḥ etc. was perhaps noted in the P.M. too. See however

P.M. at the end of NṆijanta, p. 475 (also p. 447).