This page has been fully proofread once and needs a second look.

इति सूत्रेण रक्षणव्यतिरिक्तार्थे ओदनं भुङ्क्ते इत्यादावेव आत्मनेपदविधानात् ।
इह तु तदभावात् परस्मैपदेन भवितव्यम् इति चेत्--सत्यम् । इहोपभोग एव
भुजेरर्थः । न पालनमिति समादधुः ।
 
अथ कथम्--
इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य
(भट्टिकाव्ये १-२३)
 
इति प्रयोगः । अत्र स्वत उभयपदिनोऽपि जानातेः अनुपसर्गाज्ज्ञः (१-३-७६)
इतिसूत्रेण जानातेर्यदि <flag>तङ्</flag> तर्हि अनुपसर्गादेवेत्यर्थनियमात् । प्रकृते सोपसर्गात्
कथमात्मनेपदप्रयोगः इति चेत्--सत्यम् । अनुजज्ञे इति नायं कर्तरि <flag>तङ</flag>तङ् । किं
तु कर्मणि । ततः सोपसर्गादपि तत्संभवात् । तदा नृपेणेति विभक्तिविपरिणामः
कार्य [^198]इत्याहुः ।
 
अथ कथम् --
किंशुकमुखमनुकुरुते कामार्तिं वदति दुस्सहं धीरः ।
किंनरगीतं मधुरं किंपुरुषमुखं तुरङ्गमुखसदृशम् ॥ इति ॥
 
आज्ञा न त्रिपुरान्तकस्य गणिता देवः स्मरो निन्दितो
बन्धूनां वचनं विलङ्घितमतः पापस्य विच्छित्तये ।
देहो भूशयनव्रतं वितनुते पाथोनिवासव्रतं
चक्षुः स्वीकुरुते मनोऽनुकुरुते तापाग्निवासव्रतम् ॥
 
इति भानुकरमिश्रः [^199] । अत्र अनुपूर्वात् करोतेः कर्तृगेऽपि क्रियाफले अनु-
पराभ्यां कृञः (१-३-७९) इति सूत्रेण परस्मैपदस्य विधानात् कथमत्रात्मनेपदम्
इति चेत्--सत्यम् । प्रमाद एवायमिति बहवः । संज्ञापूर्वको विधिरनित्य
इत्यनेन वा परस्मैपदाभावः समाधेयः इति वदन्ति ।
 
अथ कथम्--
निपीयतां नाम चकोरजिह्वया कथंचिदेतन्मुखचन्द्रचन्द्रिका ।
इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी ॥
(नैषधे १२-६)
 
[^198]. See Jayamaṅgalā on Bhaṭṭi I.23, and also the Ś.K. on 1.3.76.
[^199]. MSS. A, & E read: Bhānukaramandraḥ.
MS. F reads: Bhānukarabhūḥ.
MSS. B, C, D, & G read: Bhānukaramiśraḥ, who is said by some to be
identical with Bhānudatta. For the controversy. See P.V. Kane's H.S.P.
(p.360). I have not been able to trace the verses.