This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
इति सूत्रेण रक्षणव्यतिरिक्तार्थे प्रोदनं भुङ्क्ते इत्यादावेव आत्मनेपदविधानात् ।

इह तु तदभावात् परस्मैपदेन भवितव्यम् इति चेत् --सत्यम् । इहोपभोग एवं

भुजेरर्थः । न पालनमिति समादधुः ।
 

 
अथ कथम्--

इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य
 

(भट्टिकाव्ये १-२३)
 

 
इति प्रयोगः । अत्र स्वत उभयपदिनोऽपि जानाते:तेः अनुपसर्गाज्ज्ञः (१-३-७६)

इतिसूत्रेण जानातेर्यदि <flag>तङ्</flag> तर्हि अनुपसर्गादेवेत्यर्थनियमात् । प्रकृते सोपसर्गात्

कथमात्मनेपदप्रयोगः इति चेत् --सत्यम् । अनुजज्ञे इति नायं कर्तरि <flag>तङ</flag> । किं

तु कर्मणि । ततः सोपसर्गादपि तत्संभवात् । तदा नृपेणेति विभक्तिविपरिणामः

कार्य [^198]इत्याहुः ।
 

 
अथ कथम् --
 
कि

किं
शुकमुखमनुकुरुते कामार्तिं वदति दुस्सहं धीरः ।

किंनरगीतं मधुरं किंपुरुषमुखं तुरङ्गमुखसदृशम् ॥ इति ॥
 

 
आज्ञा न त्रिपुरान्तकस्य गणिता देवः स्मरो निन्दितो

बन्धूनां वचनं विलङ्गिघितमतः पापस्य विच्छित्तये ।

देहो भूशयनव्रतं वितनुते पाथोनिवासव्रतं
 

चक्षुः स्वीकुरुते मनोऽनुकुरुते तापाग्निवासव्रतम् ॥
 
51%
 

 
इति भानुकरमिश्र : रः [^199] । अत्र अनुपूर्वात् करोतेः कर्तृ गेऽपि क्रियाफले अनु-

पराभ्यां कृञ्ञः (१-३-७) इति सूत्रेण परस्मैपदस्य विधानात् कथमत्रात्मनेपदम्

इति चेत् -- --सत्यम् । प्रमाद एवायमिति बहवः । संज्ञापूर्वको विधिरनित्य

इत्यनेन वा परस्मैपदाभावः समाधेयः इति वदन्ति ।
 

 
अथ कथम्--

निपीयतां नाम चकोरजिह्वया कथंचिदेतन्मुखचन्द्रचन्द्रिका ।

इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी ॥

( नैषधे १२-६)
 

 
[^
198]. See Jayamangalā on Bhattṭṭi I.23, and also the S.K. on 1.3.76.

[^
199]. MSS. A, & E read: Bhānukaramandrah.
 
ḥ.
MS. F reads: Bhānukarabhūh.
 
ḥ.
MSS. B, C, D, & G read: Bhānukaramisrah, who is said by some to be
 

identical with Bhānudatta. For the controversy. See P.V. Kane's H.S.P.

(p.360). I have not been able to trace the verses.