This page has been fully proofread once and needs a second look.

इति प्रयोगः । अत्र समो गम्यृच्छिभ्याम् (१-३-२९) इति सूत्रेण अकर्मकादेव-
तङो विधानात् । प्रकृते च गमेः सकर्मकत्वात्--इति चेत् आर्षत्वादित्याहुः[^193] ।
अथ वा ऐक्यमिति चार्तुर्वर्ण्यादित्वात् (७-३-३१ सूत्रे कौमुदी दृश्यताम् ) स्वार्थे
ष्यञि रूपम् । ऐक्यं एकं समगच्छत समपद्यत इति वा समाधेयमिति च ।
 
अथ कथम् --
रक्षांसीति पुरापि संशृणुमहे वीरस्तु कस्तादृशो
जागर्ति स्म <flag>जगत्त्रयीविपदलंकर्मीणदोर्विक्रमः</flag>
(अनर्घराघवे ६-२५)
 
इति मुरारिप्रयोगः । अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् (१-३-२९ सूत्रे
दृश्यताम् ) अकर्मकादित्येवेत्यर्थनियमात् । प्रकृते च शृणोतेः सकर्मकत्वात् कथमात्मने-
पदम् इति चेत्--प्रमाद एवायमित्याहुः[^194] । इति कथयद्भ्य इत्यध्याहारो वे इति च ।
 
अथ कथम्--
नभः समाक्रामति[^195] चन्द्रमाः क्रमात्
 
इति प्रयोगः । अत्र आङ उद्गमने (१-३-४०) इतिसूत्रेण आङपूर्वस्य क्रमतेः
उद्गमनार्थे आत्मनेपदविधानात् इति चेत्--सत्यम् । व्याप्तिमात्रमिह विव-
क्षितम् । न तूद्गमनम् । तेन न तङ् [^196]इत्याहुः ।
 
अथ कथम्--
तव भ्रूकालिन्दीतनुतरतरङ्गायततले
कृतावासं मीनद्वयमिति वदे तेऽम्ब नयने-इति लावण्यलहरिः ? ।
 
अत्र परस्मैपदिनो वदतेः कथमात्मनेपदप्रयोगः इति चेत्--एवं वदन्ति[^197]
भासनोपसंभाषाज्ञानेत्यादिसूत्रेण (१-३-४७) भासनाद्यर्थविवक्षया समाधेयमिति ।
 
अथ कथम्--
भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः
पूर्वं त्वहो शेषमशेषमन्त्यम् (नैषधे ३-२५)
 
इति श्रीहर्षः । अत्र भुजपालनाभ्यवहारयोरिति धातोः भुजोऽनवने (१-३-६६)
 
[^193]. See Ś.K. on 1.3.29.
 
[^194]. Ś.K. has this (1.3.29).
 
[^195]. See Durghaṭavṛtti on 1.3.40, which quotes the following :
nabhas samākrāmati naṣṭavartmanā
sthitvaikacakreṇa rathena bhāskaraḥ.
 
[^196]. Bhaṭṭoji quotes the same line in his Ś.K. on 1.3.40.
 
[^197]. See also Naiṣadha XIV.36, and the Nalakīrtikaumudī (my edition)
II.31, & II.34.