This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
193
 
इति प्रयोगः । अत्र समो गम्यृच्छिभ्याम् (१-३-२) इति सूत्रेण अकर्मकादेव-

तङो विधानात् । प्रकृते च गमे: सकर्मकत्वात् - --इति चेत् आर्षत्वादित्याहुः
[^193] ।
अथ वा ऐक्यमिति चार्तुर्वर्ण्यादित्वात् (७-३-३१ सूत्रे कौमुदी दृश्यताम् ) स्वार्थे

ष्यन्निञि रूपम् । ऐक्यं एकं समगच्छत समपद्यत इति वा समाधेयमिति च ।

 
अथ कथम् --
 
50
 

रक्षांसीति पुरापि संशृणुमहे वीरस्तु कस्तादृशो

जागर्ति स्म <flag>जगत्त्रयोयीविपदलंकर्मीणोणदोर्विक्रमः
 
</flag> ।
( अनर्घराघवे ६-२५)
 
.
 

 
इति मुरारिप्रयोगः । अर्तिश्रुदॄदृशिभ्यश्चेति वक्तव्यम् (१-३-२ सूत्रे

दृश्यताम् ) अकर्मकादित्येवेत्यर्थनियमात् । प्रकृते च शृणोतेः सकर्मकत्वात् कथमात्मने-

पदम् इति चेत् --प्रमाद एवायमित्याहु:[^194] । इति कथयद्भ्य इत्यध्याहारो वे इति च ।

 
अथ कथम्-
-
नभः समाक्रामति [^195] चन्द्रमाः क्रमात्
 

 
इति प्रयोगः । अत्र आङ उद्गमने (१-३-४०) इतिसूत्रेण आङपूर्वस्य क्रमतेः

उद्गमनार्थे आत्मनेपदविधानात् इति चेत् -- --सत्यम् । व्याप्तिमात्रमिह विव-

क्षितम् । न तूद्गमनम् । तेन न तङ् [^19¨6]इत्याहुः ।
 

 
अथ कथम् -
तब
 
--
तव
भ्रूकालिन्दीतनुतरतरङ्गायततले
 

कृतावासं मीनद्वयमिति वदे तेऽम्ब नयने- इति लावण्यलहरि: ? ।

 
अत्र परस्मैपदिनो वदतेः कथमात्मनेपदप्रयोगः इति चेत् -- --एवं वदन्ति [^197
]
भासनोपसंभाषा ज्ञानेत्यादिसूत्रेण (१-३-४७) भासनाद्यर्थविवक्षया समाधेयमिति ।
 

 
अथ कथम् --
 
--
भुङ्क्ते श्रितश्रोत्निरियसात्कृतश्रीः
 

पूर्वं त्वहो शेषमशेषमन्त्यम् (नैषधे ३-२५)
 

 
इति श्रीहर्षः । अत्र भुजपालनाभ्यवहारयोरिति धातोः भुजोऽनवने ( १-३-६६)
 

 
[^
193.
 
]. See S.K. on 1.3.29.
 

 
[^
194. S]. Ś.K. has this (1.3.29).
 

 
[^
195.
 
]. See Durghatavrtti on 1.3.40, which quotes the following :
 

nabhas samākrāmati naṣṭavartmanā
 

sthitvaikacakrena rathena bhāskaraḥ.
 

 
[^
196]. Bhattṭṭoji quotes the same line in his S.K. on 1.3.40.
 

 
[^
197]. See also Naişadha XIV.36, and the Nalakiīrtikaumudiī (my edition )

II.31, & II.34.