This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
193
 
इति प्रयोगः । अत्र समो गम्यृच्छिभ्याम् (१-३-२६) इति सूत्रेण अकर्मकादेव-
तङो विधानात् । प्रकृते च गमे: सकर्मकत्वात् - इति चेत् आर्षत्वादित्याहुः ।
अथ वा ऐक्यमिति चार्तुर्वर्ण्यादित्वात् (७-३-३१ सूत्रे कौमुदी दृश्यताम् ) स्वार्थे
ष्यन्नि रूपम् । ऐक्यं एकं समगच्छत समपद्यत इति वा समाधेयमिति च ।
अथ कथम् --
 
50
 
रक्षांसीति पुरापि संशृणुमहे वीरस्तु कस्तादृशो
जागति स्म जगत्त्रयोविपदलंकर्मीणोविक्रमः ।
 
( अनर्घराघवे ६-२५)
 
.
 
इति मुरारिप्रयोगः । अतिश्रुदॄशिभ्यश्चेति वक्तव्यम् (१-३-२६ सूत्रे
दृश्यताम् ) अकर्मकादित्येवेत्यर्थनियमात् । प्रकृते च शृणोतेः सकर्मकत्वात् कथमात्मने-
पदम् इति चेत् -प्रमाद एवायमित्याहु: । इति कथयद्भ्य इत्यध्याहारो वे इति च ।
अथ कथम्-
नभः समाक्रामति 95 चन्द्रमाः क्रमात्
 
इति प्रयोगः । अत्र आङ उद्गमने (१-३-४०) इतिसूत्रेण आङपूर्वस्य क्रमतेः
उद्गमनार्थे आत्मनेपदविधानात् इति चेत् -- सत्यम् । व्याप्तिमात्रमिह विव-
क्षितम् । न तूद्गमनम् । तेन न तङ 19¨इत्याहुः ।
 
अथ कथम् -
तब
 
भ्रूकालिन्दीतनुतरतरङ्गायततले
 
कृतावासं मीनद्वयमिति वदे तेऽम्ब नयने- इति लावण्यलहरि: ? ।
अत्र परस्मैपदिनो वदतेः कथमात्मनेपदप्रयोगः इति चेत् -- एवं वदन्ति 197
भासनोपसंभाषा ज्ञानेत्यादिसूत्रेण (१-३-४७) भासनाद्यर्थविवक्षया समाधेयमिति ।
 
अथ कथम् --
 
भुङ्क्ते श्रितश्रोत्नियसात्कृतश्रीः
 
पूर्वं त्वहो शेषमशेषमन्त्यम् (नैषधे ३-२५)
 
इति श्रीहर्षः । अव भुजपालनाभ्यवहारयोरिति धातोः भुजोऽनवने ( १-३-६६)
 
193.
 
See S.K. on 1.3.29.
 
194. S.K. has this (1.3.29).
 
195.
 
See Durghatavrtti on 1.3.40, which quotes the following :
 
nabhas samākrāmati naṣṭavartmanā
 
sthitvaikacakrena rathena bhāskaraḥ.
 
196. Bhattoji quotes the same line in his S.K. on 1.3.40.
 
197. See also Naişadha XIV.36, and the Nalakirtikaumudi (my edition )
II.31, & II.34.