This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
अयि शपे हृदयाय तवैव तद् यदि विधो र्न रुचेरसि गोचरः

(नैषधे ४ - १०६)
 
इति श्रीहर्षप्रयोगवदात्मनेपदमेव युक्तम् । तत् कथमत्र परस्मैपदप्रयोगः
इति चेत् -- --अत्र [^188]वदन्ति -- --स्वाभिप्रायप्रकाशनमिह विवक्षितम् । न शपथरूपोऽर्थ

इति ।
 
अथ कथम् --
--
व्यादत्ते विहगपतिर्मुखं स्वकीयम्
 
इति प्रयोगः । आङो दोऽनास्यविहरणे (१-३-२०) इत्यनेन मुखविकसना-
दन्यत्रैव आङपूर्वस्य ददातेरात्मनेपदविधानात् । प्रकृते च मुखप्रसारणार्थत्वात् ।
कथमत्रात्मनेपदम् इति चेत् - --अत्र [^189 ]वदन्ति धातोरुभयपदित्वं तु स्थितम् । अनेन
सूत्रेण अकर्त्रभिप्रायेऽपि तद्विधानं क्रियते । कर्बंत्रभिप्रायत्वे तु स्वत एवात्मनेपदं
स्वरितत्रिञितः (१-३-७२) इत्यनेन सिद्धम् । तदिह भविष्यतीति ।
 

 
49
 
अथ कथम् --
 
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती (रघु-४-६) इति प्रयोगः ।
उपाद्देवपूजासंगतिकरणेत्यादिवार्त्तिकेन (१-३-२५ सूत्रं दृश्यताम् ) उपात्परस्य
तिष्ठतेर्देवपूजार्थे एव तङो विधानात् । अत्र स्तुत्यं नृपम् इति मनुष्ययोगे कथमिति
चेत् -- --अत्र [^190 ]वदन्ति नृपतेर्देवतात्वारोपात् । नृपस्य देवांशत्वाद् वा इति ।

अथ कथम् --

आजघ्ने विषमविलोचनस्य वक्षः (किरात - -१७-६३)
इति भारविः । आङो यमहनः (१-३-२८) इतिसूत्रे अकर्मकात् स्वाङ्ग-
कर्मकादित्येव इत्यर्थनियमात् । इह चार्थद्वयस्याप्यभावात् कथमात्मनेपदमिति चेत्-
प्रमाद एवायमिति [^191 ]भागवृत्तिः । रावणं प्राप्येत्यध्याहृत्य वा व्याख्येयमित्याहुः ।
न च प्राप्येत्यध्याहारे ल्यब्लोपे पञ्चमी स्यात् । प्रासादमारुह्य प्रेक्षते इत्यर्थे
प्रासादात् प्रेक्षते इतिवत् इति वाच्यम् । ल्यबन्तं विनैव तदर्थावगति र्यत्र तद्विषय-
त्वात् [^192
 
त्वात्
 
तत्पश्व
]तत्पञ्चम्याः ।
 
अथ कथम् --
 
निर्गतं सुमहत् तेजस्तच्चैक्यं समगच्छत ( देवीमाहात्म्ये-२-११)
 
[^188. S]. Ś.K. has this answer (1.3.21).
 
[^189.
 
]. See S. K. on 1.3.20.
 
[^190]. See S.K. on 1.3.25.
 
[^191. S]. Ś.K. on 1.3.28 has the discussion.
 
[^192]. See S.K. on 1.3.28.