This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 

 
अयि शपे हृदयाय तवैव तद् यदि विधो र्न रुचेरसि गोचरः
 

 
( नैषधे ४ - १०६ )
 

 
इति श्रीहर्षप्रयोगवदात्मनेपदमेव युक्तम् । तत् कथमन परस्मैपदप्रयोगः

इति चेत् -- अत्र वदन्ति -- स्वाभिप्रायप्रकाशनमिह विवक्षितम् । न शपथरूपोऽर्थ
 
इति ।
 

 
इति ।
 
अथ कथम् --
 

 
व्यादत्ते विहगपतिर्मुखं स्वकीयम्
 

 
इति प्रयोगः । आङो दोऽनास्यविहरणे (१-३-२०) इत्यनेन मुखविकसना-

दन्यत्रैव आङपूर्वस्य ददातेरात्मनेपदविधानात् । प्रकृते च मुखप्रसारणार्थत्वात् ।

कथमत्रात्मनेपदम् इति चेत् - अत्र 189 वदन्ति धातोरुभयपदित्वं तु स्थितम् । अनेन

सूत्रेण अकर्तभिप्रायेऽपि तद्विधानं क्रियते । कर्बंभिप्रायत्वे तु स्वत एवात्मनेपदं

स्वरितत्रितः (१-३-७२) इत्यनेन सिद्धम् । तदिह भविष्यतीति ।
 

 

 

 
49
 

 
अथ कथम् -
 

 
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती (रघु-४-६) इति प्रयोगः ।

उपाद्देवपूजासंगतिकरणेत्यादिवात्तिकेन (१-३-२५ सूत्रं दृश्यताम् ) उपात्पर

तिष्ठतेर्देवपूजार्थे एव तङो विधानात् । अत्र स्तुत्यं नृपम् इति मनुष्ययोगे कथमिति

चेत् -- अत्र 190 वदन्ति नृपतेर्देवतात्वारोपात् । नृपस्य देवांशत्वाद् वा इति ।

अथ कथम् --
 

 
आजघ्ने विषमविलोचनस्य वक्षः (किरात - १७-६३)

इति भारविः । आङो यमहनः (१-३-२८) इतिसूत्रे अकर्मकात् स्वाङ्ग-

कर्मकादित्येव इत्यर्थनियमात् । इह चार्थद्वयस्याप्यभावात् कथमात्मनेपदमिति चेत्-

प्रमाद एवायमिति 191 भागवृत्तिः । रावणं प्राप्येत्यध्याहृत्य वा व्याख्येयमित्याहुः ।

न च प्राप्येत्यध्याहारे ल्यब्लोपे पञ्चमी स्यात् । प्रासादमारुह्य प्रेक्षते इत्यर्थे

प्रासादात् प्रेक्षते इतिवत् इति वाच्यम् । ल्यबन्तं विनैव तदर्थावगति र्यत्र तद्विषय-

192
 

 
त्वात्
 

 
तत्पश्वम्याः ।
 

 
अथ कथम् --
 

 
निर्गतं सुमहत् तेजस्तच्चैक्यं समगच्छत ( देवीमाहात्म्ये-२-११)
 

 
188. S.K. has this answer (1.3.21).
 

 
189.
 

 
See S. K. on 1.3.20.
 

 
190. See S.K. on 1.3.25.
 

 
191. S.K. on 1.3.28 has the discussion.
 

 
192. See S.K. on 1.3.28.