This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
मित्संज्ञा तु चौरादिकस्य नास्ति । नान्ये मितोऽहेतौ (गणसूत्रम् १७) ) इत्यनेन

ज्ञपादिपञ्चकव्यतिरिक्तानां चुरादीनाम् अहेतौ स्वार्थे णिचि मित्संज्ञानिषेधात् ।
 

 
नन्वेकं सन्धित्सतोऽपरं[^179a] प्रच्यवते इतिन्यायेन निशामय प्रशामयेति

रूपसिद्धावपि परस्मैपदित्वहानिः प्राप्नोति । शम आलोचने इत्यस्य आकुस्मादात्मने-

पदिन: इति (गणसूत्रेण) आत्मनेपदविधानात् इति चेत् --सत्यम् । अत्र [^180 ]वदन्ति-

स्वार्थण्यन्तात् हेतुमण्णिचि रूपमिदमिति साधनात् । न चार्थासंगतिः ।

नित्तृप्रेषणाद् धातोः प्राकृतेर्थे णिजिष्यते इति सिद्धान्तात् । धातूनामनेकार्थत्वाच्च

उपशमादौ वृत्तिरिति च । एतेन
 

निशामय तदुत्पत्तितिं विस्तराद् गदतो मम (१-२)

इति देवीमाहात्म्यमपि व्याख्यातम् ।
 
47
 

 
अथ कथम्--

ततः [^181 ]समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् (रघुवंशे १६-७५)
 

इति कालिदासः ।
 

 
अत्र मारणतोषण निशामनेषु ज्ञा (गणसूत्रम्) इत्यनेन निशामनार्थे जानाते-

र्
मित्त्वविधानात् मितां ह्रस्वः (६-४-२) इत्यनेन ह्रस्वः स्यात् (तेन समाज्ञ-

पयत्) इति भवितव्यम् इति चेत् -- --उच्यते । निशामनं चाक्षुषज्ञानमिति माधव: वः[^182
] ।
तन्मते अचाक्षुषज्ञाने मित्त्वाभावान्न दोषः । ज्ञापनमात्रे मित्त्वमिति मते तु नेदं

जानाते: रूपम् । किं तु ज्ञा नियोगे इति चौरादिकस्य । धातूनामनेकार्थत्वाच्च

नियोगव्यतरिक्तार्थेऽपि वृत्तिः । हरदत्तादयस्तु [^183 ]निशानेष्विति पाठं स्वीकृत्य

निशानं तीक्ष्णीकरणमिति व्याख्याय प्रकृते तदभावात् जानातेरेवेदं रूपमित्युक्तावपि

न दोष इत्याहुः । वृत्तिकारस्तु मितां ह्रस्वः (६-४-२) इत्यत्र वा चित्तविरागे

(६-४-१) इत्यतो वाग्रहणमनुवर्त्य [^184 ]व्यवस्थितविभाषामङ्गीचकार । एतेन

अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः (रघु-१-५४)
 
इति
 

इति
रजो विश्रामयन् राज्ञाम् (४-८५)
इत्यादि च व्याख्यातम् ।
 
रजो विश्रामयन् राज्ञाम् (४-८५)
 

 
[^
179-aa]. This is also known as "Ekam anusandhitsatah" etc. See laukikanyā-

yāñjali; by G.A. Jacob; N.S.P., 1925.
 

 
[^
180]. See P.M. under fama ālocane in Curādi.
 

 
[^
181]. See S.K. under Māranatosanṇatoṣaṇa-etc. in Ghatādi. Bhattṭṭoji also quotes:

vijñāpanā bhartṛṣu siddhim eti; (Kumāra-VII.93 )
 

and Taj jñāpayaty ācāryah (Mahābhāşya, many places )

These are quoted earlier
 
by Haradatta on
 
1.4.34.
 

 
[^
182]. Bhattṭṭoji has a good discussion about this in his S.K. under Mārana-
tosan
ṇa-
toṣaṇ
a-etc.
 

 
[^
183]. See Padamañjarī on 1.4.34.
 

 
[^
184]. See Kāsikā 6.4.92. Also see Durghatavrtti on the same.