This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
मित्संज्ञा तु चौरादिकस्य नास्ति । नान्ये मितोऽहेतौ (गणसूत्रम् १९७) ) इत्यनेन
ज्ञपादिपञ्चकव्यतिरिक्तानां चुरादीनाम् अहेतौ स्वार्थे णिचि मित्संज्ञानिषेधात् ।
 
नन्वेकं सन्धित्सतोऽपरं179a प्रच्यवते इतिन्यायेन निशामय प्रशामयेति
रूपसिद्धावपि परस्मैपदित्वहानिः प्राप्नोति । शम आलोचने इत्यस्य आकुस्मादात्मने-
पदिन: इति (गणसूत्रेण) आत्मनेपदविधानात् इति चेत् --सत्यम् । अत्र 180 वदन्ति-
स्वार्थण्यन्तात् हेतुमण्णिचि रूपमिदमिति साधनात् । न चार्थासंगतिः ।
नित्तृप्रेषणाद् धातोः प्राकृतेर्थे णिजिष्यते इति सिद्धान्तात् । धातूनामनेकार्थत्वाच्च
उपशमादौ वृत्तिरिति च । एतेन
 
निशामय तदुत्पत्ति विस्तराद् गदतो मम (१-२)
इति देवीमाहात्म्यमपि व्याख्यातम् ।
 
47
 
अथ कथम्--
ततः 181 समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् (रघुवंशे १६-७५)
 
इति कालिदासः ।
 
अत्र मारणतोषण निशामनेषु ज्ञा (गणसूत्रम्) इत्यनेन निशामनार्थे जानाते-
मित्त्वविधानात् मितां ह्रस्वः (६-४-१२) इत्यनेन ह्रस्वः स्यात् (तेन समाज्ञ-
पयत्) इति भवितव्यम् इति चेत् -- उच्यते । निशामनं चाक्षुषज्ञानमिति माधव: 182 ।
तन्मते अचाक्षुषज्ञाने मित्त्वाभावान्न दोषः । ज्ञापनमात्रे मित्त्वमिति मते तु नेदं
जानाते: रूपम् । किं तु ज्ञा नियोगे इति चौरादिकस्य । धातूनामनेकार्थत्वाच्च
नियोगव्यतरिक्तार्थेऽपि वृत्तिः । हरदत्तादयस्तु 183 निशानेष्विति पाठं स्वीकृत्य
निशानं तीक्ष्णीकरणमिति व्याख्याय प्रकृते तदभावात् जानातेरेवेदं रूपमित्युक्तावपि
न दोष इत्याहुः । वृत्तिकारस्तु मितां ह्रस्वः (६-४-१२) इत्यत्र वा चित्तविरागे
(६-४-११) इत्यतो वाग्रहणमनुवर्त्य 184 व्यवस्थितविभाषामङ्गीचकार । एतेन
अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः (रघु-१-५४)
 
इति
 
इत्यादि च व्याख्यातम् ।
 
रजो विश्रामयन् राज्ञाम् (४-८५)
 
179-a. This is also known as "Ekam anusandhitsatah" etc. See laukikanyā-
yāñjali; by G.A. Jacob; N.S.P., 1925.
 
180. See P.M. under fama ālocane in Curādi.
 
181. See S.K. under Māranatosana-etc. in Ghatādi. Bhattoji also quotes:
vijñāpanā bhartrşu siddhim eti; (Kumāra-VII.93 )
 
and Taj jñāpayaty ācāryah (Mahābhāşya, many places )
These are quoted earlier
 
by Haradatta on
 
1.4.34.
 
182. Bhattoji has a good discussion about this in his S.K. under Mārana-
tosana-etc.
 
183. See Padamañjarī on 1.4.34.
 
184. See Kāsikā 6.4.92. Also see Durghatavrtti on the same.