This page has been fully proofread once and needs a second look.

46
 
साहित्यकण्टकोद्धारः
 
अथ कथम् --
 
-
 

स्त्रक् पारिजातस्य ऋते नलाशां वासैरशेषामपुपुपूरदाशाम्
 

(नैषधे ६-८६ )
 

 
इति श्रीहर्षः ।
 

 
अत्र पूरी आप्यायने इति चौरादिकस्येदं रूपमिति वक्तव्यम् ।

तत्र णिचि

कृते णौ चङ्युपधाया (७-४-१) इति ह्रस्वे च दीर्घो लघोः (७-४-४) इत्यनेन

अभ्यासस्य दीर्घेण भवितव्यम् । अपूपुरद् इति रूपेण च भाव्यम् --
 

अचूचुरच्चन्द्रमसोऽभिरामताम् (माघे १-१६)
 

 
इति यथा । इति चेत् --सत्यम् । प्रामादिकमेवेदमिति ऋजुदृशः । न च

नाग्लोपि -- (७-४-२) इत्यनेन दीर्घस्य निषेध इति वाच्यम् । अस्य धातोरग्लोपि-

त्वाभावात् । केचित्तु संज्ञापूर्वको विधिरनित्य इति परिभाषया दीर्घो नेति कथं-

चित् [^176 ]समाधेयमित्याहुः । अथ वा पूरी आप्यायने इत्यस्य घनिञि पूरणमित्यर्थे

पूरः । ततस्तत् करोतीति (गणसूत्रेण) णिचि अग्लोपित्वात् नाग्लोपीति

(७-४-२) इत्यनेन दीर्घनिषेधे इदं रूपमिति वा समाधेयमिति च ।
 

 
अथ कथम् --
 
--
मातर्जगज्जननि पद्मकृताधिवासे कोपं प्रशामय हरेर्मुरमर्दनस्य ।
 

नो चेत्त् चिरं रचितचारुचराचरस्य सक्रोधवीक्षणवशाद् भविता विनाश ।
इति
शः ॥
 
इति [^
177
]नरसिंहचम्पूकाव्ये । अत्र णिजन्तस्य शमिधातोरमन्तत्वेन

जनीजृष्-- (गणसूत्रम् १८८) इत्यनेन मित्संज्ञायाम् मितां ह्रस्वः (६४-२)

इति उपधायाः ह्रस्वः स्यात् । तेन च प्रशमयेति भाव्यम् ।
 
178
 

 
न च शमो दर्शने (गणसूत्रम्) इत्यनेन मित्वस्य प्रतिषेध इति वाच्यम् । तत्र

शाम्यतिश्चक्षुर्जन्यदर्शने मिन्न स्यादित्यर्थनियमात्[^178] । प्रकृते च चक्षुर्जन्यदर्शना-

भावात् मित्संज्ञा वज्रलेपायते इति चेत् --अनात्राहुः"[^179] । नायं शम उपशमे

इत्यस्य प्रयोगः । किं तु शम आलोचने इति चौरादिकस्य । अमन्तत्वलक्षण-

 
[^176]. See Nārāyaṇa's commentary on Naiṣadha VI.86.
 
[^177]. I am unable to verify the work. Sūryakavi, the author of a commen-
tary Bālabodhikā on the Kavikalpalatā of Deveśvara, is said to have written also
a Narasiṃhacampū. See S.K. De's H.S.P., p. 262. It is not clear whether
the reference here is to this Narasiṃhacampū, which is possible. See the
Introduction. See also Note 230-b.
 
[^178]. See S.K. under śamo'darśane, a gaṇasūtra in ghaṭādi (in Bhavādi).
 
[^
179
 
176. See Nārāyana's commentar on Naişadha VI.86.
 
177. I am unable to verify the work. Süryakavi, the author of a commen-
tary
]. Balabodhikä on the Kavikalpalată of Deveśvara, is said to have written also
a Narasimhacampū. See S.K. De's H.S.P., p. 262. It is not clear whether
the reference here is to this Narasimhacampu, which is possible. See the
Introduction. See also Note 230-b.
 
178. See S.K. under samo' darśane, a gaņasūtra in ghatādi (in Bhavādi).
 
179. Bhatt
haṭṭoji has these explanations. All the twisting and jugglery mean

in simple terms that these usages have been regarded as correct, irrespective

of the recordings in the remote past, which may appear contrary.