2023-04-26 11:19:29 by ramamurthys
This page has been fully proofread once and needs a second look.
अथ कथम् --
तुलयति स्म विलोचनतारकाः कुरवकस्तबकव्यतिषङ्गिनि (६-४)
इति माघः । अत्र तुल उन्माने इति चौरादिकस्य णिचि पुगन्तेतिसूत्रेण
(७-३-८६) गुणे तोलयति इति स्यात् यद्गुञ्जासमतोलनम् इत्यादिवत् --इति
चेत् अत्र वदन्ति । तुल्यार्थैरतुलोपमाभ्याम् (२-३-७२) इतिसूत्रादेव निपातनात्
तुलाशब्द:दः साधुः । ततः तत् करोति तदाचष्टे (गणसूत्रं चुरादौ दृश्यताम् )
इत्यनेन णिचि सति इदं रूपं [^171]सिद्ध्यति इति ।
अथ कथम्--
अक्षं विक्षिपति ध्वजं दलयते मृद्नाति नद्धं युगं
चक्रं चूर्णयति क्षिणोति तुरगान् रक्षःपतेः पक्षिराट् ।
रुन्धन् गर्जति तर्जयत्यभिभवत्यालम्बते ताडय-
त्याकर्षत्यवलुम्पति प्रचलति न्यञ्चत्युदञ्चत्यपि ॥
(हनुमन्नाटके ४-११)
इत्यत्र तर्जयतीति प्रयोगः । तर्जतेश्चौरादिकस्य अनुदात्तेत्त्वादात्मनेपदेन
भवितव्यम् । अत्राहुः[^172] -- चौरादिकस्य भौवादिकस्य वा हेतुमण्णिचि रूपमिदं
भवतीति । एतेन
तर्जयन्निव केतुभिः (रघुवंशे ४-२८)
इति प्रयोगोऽपि [^173]व्याख्यातः
अथ कथम्--
त्रपामपाकृत्य निभान्निभालय क्षितिक्षितं मालयमालयं रुचः
(नैषधे १२-५३ )
इति श्रीहर्षस्य प्रयोगः । भल [^174]आभण्डने इत्यस्य चौरादिकस्य (आकुस्मा-
दात्मनेपदिनः इत्यनेन ) आत्मनेपदित्वात् कथं परस्मैपदप्रयोगः--
इति चेत्--अत्र
[^175]केचित् निभालनं निभालः । तद्वान् निभालवान् । तादृशं कुरु इति तत्करोतीति
णिचि मतुपो लोपे च साधनीयमिति वदन्ति ।
[^171]. Mallinātha on Māgha VI.4 gives the same answer.
[^172]. See P.M. on the root tarja in Curādi.
[^173]. See K.A.S.V.2.3, and the Vṛtti thereon. See also
Mallinātha on
Raghu.IV.28.
[^174]. Bhaṭṭoji notes in his P.M.: ābhaṇḍanam =nirūpaṇam. Nirūpaṇa is in
the sense of seeing or ascertaining.
[^175]. This seems to be a reference to Nārāyaṇa. See his commentary
on Naiṣadha XII.53, where the exact wording is found.
See also Mallinātha on Naiṣadha XI.1. He has a different way of justi-
fication too.
तुलयति स्म विलोचनतारकाः कुरवकस्तबकव्यतिषङ्गिनि (६-४)
इति माघः । अत्र तुल उन्माने इति चौरादिकस्य णिचि पुगन्तेतिसूत्रेण
(७-३-८६) गुणे तोलयति इति स्यात् यद्गुञ्जासमतोलनम् इत्यादिवत् --इति
चेत् अत्र वदन्ति । तुल्यार्थैरतुलोपमाभ्याम् (२-३-७२) इतिसूत्रादेव निपातनात्
तुलाशब्