This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
अथ कथम् --
 
(६-४)
 

तुलयति स्म विलोचनतारकाः कुरवकस्तबकव्यतिषङ्गिनि
(६-४)
 
इति माघः । अत्र तुल उन्माने इति चौरादिकस्य णिचि पुगन्तेतिसूत्रेण

(७-३-८६) गुणे तोलयति इति स्यात् यद्गुञ्जासमतोलनम् इत्यादिवत् -- इति
इति
चेत् अत्र वदन्ति । तुल्यार्थैरतुलोपमाभ्याम् (२-३-७२) इतिसूत्रादेव निपातनात्

तुलाशब्द: साधुः । ततः तत् करोति तदाचष्टे (गणसूत्रं चुरादौ दृश्यताम् )

इत्यनेन णिचि सति इदं रूपं [^171
]सिद्ध्यति इति ।
 

 
अथ कथम्--

अक्षं विक्षिपति ध्वजं दलयते मृद्नाति नद्धं युगं

चक्रं चूर्णयति क्षिणोति तुरगान् रक्षःपतेः पक्षिराट् ।

रुन्धन् गर्जति तर्जयत्यभिभवत्यालम्बते ताडय-

त्याकर्षत्यवलुम्पति प्रचलति न्यञ्चत्युदञ्चत्यपि ॥
 
45
 

( हनुमन्नाटके ४-११)

 
इत्यत्र तर्जयतीति प्रयोगः । तर्जतेश्चौरादिकस्य अनुदात्तेत्त्वादात्मनेपदेन

भवितव्यम् । अत्राहु: '
:
हुः[^172] -- चौरादिकस्य भौवादिकस्य वा हेतुमण्णिचि रूपमिदं
 

भवतीति । एतेन
 

तर्जयन्निव केतुभिः (रघुवंशे ४-२८)
 

इति प्रयोगोऽपि [^173
]व्याख्यातः
 

 
अथ कथम्--

त्रपामपाकृत्य निभान्निभालय क्षितिक्षितं मालयमालयं रुचः
 

( नैषधे १२ -५३ )

 
इति श्रीहर्षस्य प्रयोगः । भल [^174 ]आभण्डने इत्यस्य चौरादिकस्य (आकुस्मा-

दात्मनेपदिनः इत्यनेन ) आत्मनेपदित्वात् कथं परस्मैपदप्रयोगः--

इति चेत् -- --
त्र
[^
175
]केचित् निभालनं निभालः । तद्वान् निभालवान् । तादृशं कुरु इति तत्करोतीति

णिचि मतुपो लोपे च साधनीयमिति वदन्ति ।
 

 
[^
171]. Mallinātha on Māgha VI.4 gives the same answer.

 
[^
172]. See P.M. on the root tarja in Curādi.
 
Mallinātha on
 

 
[^
173]. See K.A.S.V.2.3, and the Vrtti thereon. See also

Mallinātha on
Raghu.IV.28.
 

 
[^
174]. Bhattṭṭoji notes in his P.M.: ābhandṇḍanam =nirūpaņam. Nirūpana is in
ṇa is in
the sense of seeing or ascertaining.
 

 
[^
175]. This seems to be a reference to Nārāyana. See his commentary

on Naişadha XII.53, where the exact wording is found.
 

 
See also Mallinātha on Naişadha XI.1. He has a different way of justi-

fication too.