This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
अथ कथम् --
 
(६-४)
 
तुलयति स्म विलोचनतारकाः कुरवकस्तबकव्यतिषङ्गिनि
इति माघः । अत्र तुल उन्माने इति चौरादिकस्य णिचि पुगन्तेतिसूत्रेण
(७-३-८६) गुणे तोलयति इति स्यात् यद्गुञ्जासमतोलनम् इत्यादिवत् -- इति
चेत् अत्र वदन्ति । तुल्यार्थैरतुलोपमाभ्याम् (२-३-७२) इतिसूत्रादेव निपातनात्
तुलाशब्द: साधुः । ततः तत् करोति तदाचष्टे (गणसूत्रं चुरादौ दृश्यताम् )
इत्यनेन णिचि सति इदं रूपं 171
सिद्धयति इति ।
 
अथ कथम्--
अक्षं विक्षिपति ध्वजं दलयते मृनाति नद्धं युगं
चक्रं चूर्णयति क्षिणोति तुरगान् रक्षःपतेः पक्षिराट् ।
रुन्धन् गर्जति तर्जयत्यभिभवत्यालम्बते ताडय-
त्याकर्षत्यवलुम्पति प्रचलति न्यञ्चत्युदञ्चत्यपि ॥
 
45
 
( हनुमन्नाटके ४-११)
इत्यत्र तर्जयतीति प्रयोगः । तर्जतेश्चौरादिकस्य अनुदात्तत्त्वादात्मनेपदेन
भवितव्यम् । अत्राहु: '
: 172 -- चौरादिकस्य भौवादिकस्य वा हेतुमण्णिचि रूपमिदं
 
भवतीति । एतेन
 
तर्जयन्निव केतुभिः (रघुवंशे ४-२८)
 
इति प्रयोगोऽपि 173
व्याख्यातः
 
अथ कथम्--
त्रपामपाकृत्य निभान्निभालय क्षितिक्षितं मालयमालयं रुचः
 
( नैषधे १२ ५३ )
इति श्रीहर्षस्य प्रयोगः । भल 174 आभण्डने इत्यस्य चौरादिकस्य (आकुस्मा-
दात्मनेपदिनः इत्यनेन ) आत्मनेपदित्वात् कथं परस्मैपदप्रयोगः--
इति चेत् -- अन
175
केचित् निभालनं निभालः । तद्वान् निभालवान् । तादृशं कुरु इति तत्करोतीति
णिचि मतुपो लोपे च साधनीयमिति वदन्ति ।
 
171. Mallinātha on Māgha VI.4 gives the same answer.
172. See P.M. on the root tarja in Curādi.
 
Mallinātha on
 
173. See K.A.S.V.2.3, and the Vrtti thereon. See also
Raghu.IV.28.
 
174. Bhattoji notes in his P.M.: ābhandanam =nirūpaņam. Nirūpana is in
the sense of seeing or ascertaining.
 
175. This seems to be a reference to Nārāyana. See his commentary
on Naişadha XII.53, where the exact wording is found.
 
See also Mallinātha on Naişadha XI.1. He has a different way of justi-
fication too.