2023-04-26 11:23:09 by ramamurthys
This page has been fully proofread once and needs a second look.
अथ कथम् --
जयाय सेनान्यमुशन्ति देवाः (कुमार-३-१५)
इति प्रयोगः । वशधातोरपि छन्दोविषयत्वात् इति चेत्--भाषायामपि
प्रयोगो दृश्यते एवेति वदन्ति--वष्टि भागुरिरल्लोपम् इति यथा ।
अथ कथम्--
आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित-
प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् ।
संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ( काव्यप्रकाशे-७ उल्लासे)
इत्यत्र कुरुते इति प्रयोगः । यजन्ति याजकाः इतिवत् प्रधानक्रियाफलस्य कर्त्रा
असंबन्धे कर्त्रभिप्रायक्रियाफलस्याभावात् स्वरितञितः कर्त्रभिप्राये क्रियाफले
(१३-७२) इति विहितमात्मनेपदं कथं युज्यताम्--इति चेत्--प्रमाद एवायमिति
काव्यप्रकाशकारादयः ।
अथ कथम्--
अर्थानां प्रविवेचनाय जगतामन्तस्तमश्शान्तये
सन्मार्गस्य विलोकनाय गतये लोकस्य यात्रार्थिनः ।
तत्तत्तामसभूतभीतय इमां विद्यावतां प्रीतये
व्यातेने[^169] किरणावलीमुदयनः सत्तर्कतेजोमयीम् ॥
इत्युदयनाचार्याः (किरणावल्यम्) ।
सरस्वतीदत्तवरप्रसादश्चक्रे सुबन्धुः सुजनैकबन्धुः
इति (वासवदत्तायाम् (आदौ) सुबन्धुश्च । अत्र व्यातेने चक्रे इत्यादौ जीवति
कर्तरि पारोक्ष्यासंभवात् कथं परोक्षे लिट् (३-२-११५) इति सूत्रेण लिट्--
इति चेत्--सत्यम् । णलुत्तमो वा (७-१-९१) इति सूत्रात् ज्ञापकात्
कर्त्रपरोक्ष-
त्वेऽपि लिटः साधुत्वम् । यद्यत्रासाधुत्वं तदा उत्तमपुरुषः कर्त्रपरोक्षः एवेति कृत्वा
परोक्षे विधीयमानस्य लिटः उत्तमे प्राप्तिरेव नास्ति । ततश्च कथमाह णलो
विकल्पं सूत्रकारः । तस्मात् कर्त्रपरोक्षत्वेऽपि लिटः साधुत्वं ज्ञाप्यते इति केचन
समादधुः । अन्ये तु आशंसायां भूतवच्च (३-३-१३२) इत्यनेनाशंसायां
लिडित्याहुः । परे तु क्रियानुकूलशक्तिमतां व्यापाराविष्टानां साधनानां पारोक्ष्य-
मिह विवक्षितम् । तेन क्रियानाविष्टसाधनमात्रप्रत्यक्षेऽपि लिट् भवत्येव । अयं
पपाच । त्वं पेचिथ इतिवत् [^170]वदन्ति ।
[^169]. See Kauṇḍabhaṭṭa's Bhúṣaṇasāra; the lakārārthanirṇaya (on liṭ).
Kauṇḍabhaṭṭa quotes this line of Udayana and considers it to be incorrect.
[^170]. See P.M. on Parokṣe liṭ (3.2.115).
जयाय सेनान्यमुशन्ति देवाः (कुमार-३-१५)
इति प्रयोगः । वशधातोरपि छन्दोविषयत्वात् इति चेत्--भाषायामपि
प्रयोगो दृश्यते एवेति वदन्ति--वष्टि भागुरिरल्लोपम् इति यथा ।
अथ कथम्--
आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित-
प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् ।
संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ (