This page has been fully proofread once and needs a second look.

44
 
अथ कथम् --
 

जयाय सेनान्यमुशन्ति देवाः (कुमार- ३-१५)
 

 
इति प्रयोगः । वशधातोरपि छन्दोविषयत्वात् इति चेत् -- --भाषायामपि

प्रयोगो दृश्यते एवेति वदन्ति --वष्टि भागुरिरल्लोपम् इति यथा ।

 
अथ कथम्--

आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित-

प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् ।

संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
 

भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ( काव्यप्रकाशे - -७ उल्लासे)

 
इत्यत्र कुरुते इति प्रयोगः । यजन्ति याजकाः इतिवत् प्रधानक्रियाफलस्य कर्जा
त्रा
असंबन्धे कर्त्रभिप्रायक्रियाफलस्याभावात् स्वरितञ्जिञितः कर्त्रभिप्राये क्रियाफले

(१३-७२) इति विहितमात्मनेपदं कथं युज्यताम्-- इति चेत् -- --प्रमाद एवायमिति
 

काव्यप्रकाशकारादयः ।
 

 
अथ कथम्--
साहित्यकण्टकोद्धारः
 

अर्थानां प्रविवेचनाय जगतामन्तस्तमश्शान्तये
 

सन्मार्गस्य विलोकनाय गतये लोकस्य यात्रार्थिनः ।

तत्तत्तामसभूतभीतय इमां विद्यावतां प्रीतये

व्यातेने "[^169] किरणावलीमुदयनः सत्तर्कतेजोमयीम् ॥

इत्युदयनाचार्याः (किरणावल्यम्) ।
 
169
 

सरस्वतीदत्तवरप्रसादश्चक्रे सुबन्धुः सुजनैकबन्धुः
 

 
इति (वासवदत्तायाम् (आदौ) सुबन्धुश्च । अत्र व्यातेने चक्रे इत्यादौ जीवति

कर्तरि पारोक्ष्यासंभवात् कथं परोक्षे लिट् (३-२-११५) इति सूत्रेण लिट्--

इति चेत् - --सत्यम् । णलुत्तमो वा (७-१-९१) इति सूत्रात् ज्ञापकात् कर्त
कर्त्र
परोक्ष-

त्वेऽपि लिटः साधुत्वम् । यद्यत्वारासाधुत्वं तदा उत्तमपुरुषः कर्त्रपरोक्षः एवेति कृत्वा

परोक्षे विधीयमानस्य लिटः उत्तमे प्राप्तिरेव नास्ति । ततश्च कथमाह णलो

विकल्पं सूत्रकारः । तस्मात् कर्त्रपरोक्षत्वेऽपि लिटः साधुत्वं ज्ञाप्यते इति केचन

समादधुः । अन्ये तु आशंसायां भूतवच्च ( (३-३-१३२) इत्यनेनाशंसायां

लिडित्याहुः । परे तु क्रियानुकूलशक्तिमतां व्यापाराविष्टानां साधनानां पारोक्ष्य-

मिह विवक्षितम् । तेन क्रियानाविष्टसाधनमात्रप्रत्यक्षेऽपि लिट् भवत्येव । अयं

पपाच । त्वं पेचिथ इतिवत् [^170 ]वदन्ति ।
 

 
[^
169]. See Kaundṇḍabhattṭṭa's Bhúşanṣaṇasāra; the lakārārthanirnaya (on lif).

Kauṇabhattṭṭa quotes this line of Udayana and considers it to be incorrect.

[^
170]. See P.M. on Parokşe lit (3.2.115).