This page has not been fully proofread.

44
 
अथ कथम् --
 
जयाय सेनान्यमुशन्ति देवाः (कुमार- ३-१५)
 
इति प्रयोगः । वशधातोरपि छन्दोविषयत्वात् इति चेत् -- भाषायामपि
प्रयोगो दृश्यते एवेति वदन्ति --वष्टि भागुरिरल्लोपम् इति यथा ।
अथ कथम्--
आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित-
प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् ।
संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
 
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ( काव्यप्रकाशे - ७ उल्लासे)
इत्यत्र कुरुते इति प्रयोगः । यजन्ति याजकाः इतिवत् प्रधानक्रियाफलस्य कर्जा
असंबन्धे कर्तभिप्रायक्रियाफलस्याभावात् स्वरितञ्जितः कर्तभिप्राये क्रियाफले
(१३-७२) इति विहितमात्मनेपदं कथं युज्यताम्-- इति चेत् -- प्रमाद एवायमिति
 
काव्यप्रकाशकारादयः ।
 
अथ कथम्--
साहित्यकण्टकोद्धारः
 
अर्थानां प्रविवेचनाय जगतामन्तस्तमश्शान्तये
 
सन्मार्गस्य विलोकनाय गतये लोकस्य यात्रार्थिनः ।
तत्तत्तामसभूतभीतय इमां विद्यावतां प्रीतये
व्यातेने " किरणावलीमुदयनः सत्तर्कतेजोमयीम् ॥
इत्युदयनाचार्याः (किरणावल्यम्) ।
 
169
 
सरस्वतीदत्तवरप्रसादश्चक्रे सुबन्धुः सुजनैकबन्धुः
 
इति (वासवदत्तायाम् (आदौ) सुबन्धुश्च । अत्र व्यातेने चक्रे इत्यादौ जीवति
कर्तरि पारोक्ष्यासंभवात् कथं परोक्षे लिट् (३-२-११५) इति सूत्रेण लिट्--
इति चेत् - सत्यम् । णलुत्तमो वा (७-१-९१) इति सूत्रात् ज्ञापकात् कर्तपरोक्ष-
त्वेऽपि लिटः साधुत्वम् । यद्यत्वासाधुत्वं तदा उत्तमपुरुषः कर्तपरोक्षः एवेति कृत्वा
परोक्षे विधीयमानस्य लिटः उत्तमे प्राप्तिरेव नास्ति । ततश्च कथमाह णलो
विकल्पं सूत्रकारः । तस्मात् कर्तपरोक्षत्वेऽपि लिटः साधुत्वं ज्ञाप्यते इति केचन
समादधुः । अन्ये तु आशंसायां भूतवच्च ( (३-३-१३२) इत्यनेनाशंसायां
लिडित्याहुः । परे तु क्रियानुकूलशक्तिमतां व्यापाराविष्टानां साधनानां पारोक्ष्य-
मिह विवक्षितम् । तेन क्रियानाविष्टसाधनमात्रप्रत्यक्षेऽपि लिट् भवत्येव । अयं
पपाच । त्वं पेचिथ इतिवत् 170 वदन्ति ।
 
169. See Kaundabhatta's Bhúşanasāra; the lakārārthanirnaya (on lif).
Kauṇḍabhatta quotes this line of Udayana and considers it to be incorrect.
170. See P.M. on Parokşe lit (3.2.115).