This page has been fully proofread once and needs a second look.

उवदिथेति रूपं स्यात् । प्रकृतिभूतवकारस्य संप्रसारणविधायकसूत्राभावात् ।
न च वचिस्वपियजादीनां किति (६-१-१५) सूत्रेण धातुगतवकारस्यैव संप्रसारणं
भवत्विति वाच्यम् । तस्य किति [^165]प्रत्यये परे एव प्रवृत्तेः । तस्माद् ऊदिथेति
रूपं प्रामादिकमेवेत्याहुः ।
 
अथ कथम् --
त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्मं कुलकीर्तिवर्धनम् ।
प्रसीद जीवेम सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली ॥
(हनुमन्नाटके ७-१० )
इति प्रयोगः । अत्र त्यज हानाविति धातोः परस्मैपदित्वात् इति चेत्--
सत्यम् । प्रामादिक एवायमिति प्रामाणिकाः ।
 
अथ कथम्--
कदा नु होष्ये[^166] कुशिकात्मजाय (उदारराघवे) इति शाकल्यमल्लः ।
अत्र हु दानादनयोरितिधातोः परस्मैपदित्वात् कथमात्मनेपदप्रयोगः इति
चेत्--निरर्गलाः कवय इति [^167]समादधुः ।
 
अथ कथम्--
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः
(९-६३)
 
इति माघः । अत्र क्षिणोतीति रूपं क्षि हिंसायामिति धातोरिति वक्तव्यम् ।
तत्र छन्दसीति गणसूत्रात् छन्दस्येवायं प्रयोगो युक्तः न तु लोके इति चेत्-- प्रमाद
एवेति केचित् । [^168]भाषायामपीत्यन्ये ।
 
[^165]. See the rule Asaṃyogāt etc. (1.2.5), which specifies that only those
suffixes which do not have "p" as an indicatory letter (i.e. apit) are counted
as kit technically. Second person singular basic suffix (sip) has "p". So it
cannot be counted as kit.
 
[^166]. MSS. A, C, E, & F read the usage of jayāya senānyam here, and then
the usage kadā nu hoṣye.
MSS. B, D, & G read the example: kadā nu hoṣye first, and then the other :
ayāya senānyam.
 
[^167]. See P.M. in the beginning of the Juhotyādi. Bhaṭṭoji says:
hoṣye ityādikas tu keṣāṃcit prayogaḥ prāmādika eva.
 
Bhaṭṭoji does not mention here the name of the Udārarāghava or Sākalya-
malla, whom Bhaṭṭoji knows. He mentions in his Ś.K. (on 3.1.29; p. 363;
CSS. 1929) Bhaṭṭamalla (who is same as Śākalyamalla) and his Ākhyāta-
candrikā. The present usage also might have been quoted by Bhaṭṭoji from
the Udārarāghava.
 
[^168]. See S.K. on the root Kṣi hiṃsāyām (svādi). Bhaṭṭoji quotes the line:
na tad yaśaś śastrabhṛtām kṣiṇoti (Raghu.II.40).
This answer is also noted by him.