This page has been fully proofread once and needs a second look.

अत्र श्चुतिर्[^153] क्षरणे इति धातोः परस्मैपदित्वात् कथमात्मनेपदप्रयोगः इति
चेत्--सत्यम् । ईदृशः प्रमाद एवेति शास्त्रशरणाः ।
 
अथ कथम्--
वैदेशिकः स्वकुललाञ्छनतां विधत्ते
तद् भूपतिः [^153a]क्षमति किं श्रुतमेव नास्ति । (चौरपञ्चाशत्-६१ )
(औत्तराहपाठः)
 
इति चौरपञ्चाशति । अत्र क्षमूष् सहने इति धातोः अनुदात्तेत्त्वात् कथं
परस्मैपदप्रयोगः । आत्मनेपदेन हि भवितव्यम् इति चेत्--प्रमाद एवायमित्याहुः ।
अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यमिति[^154] वा समाधेयम् ।
 
अथ कथम्--
उदयति स्म तदद्भुतमालिभिर्धरणिभृद् भुवि तत्र विमृश्य यत् ।
( नैषधे ४-१८)
 
इति श्रीहर्षः । उदयति विततोर्ध्वरश्मिरज्जौ (माघ काव्ये ४-२०) इति
माघश्च । अत्र अय गताविति धातोरनुदात्तेत्त्वेनात्मनेपदित्वात् ।
 
मोहः कोऽयमहो महानुदयते लोकस्य शोकावहः (प्रबोधचन्द्रोदये (५-१४)
इतिवदात्मनेपदस्यैव युक्तत्वात् इति चेत्--सत्यम् ।
 
इट किट कटी गतौ इत्यत्न प्रश्लिष्टस्य इधातोः रूपमिदम् । तस्य परस्मै-
पदित्वादिति [^155]समादधुः ।
 
[^153]. There are two roots recorded in the Dhātupāṭha in Bhvādi. One is
Cyutir āsecane (without ś in the beginning) and the other ścutir kṣaraṇe. The
second one has palatal ś in the beginning, and of this there are two readings
handed down. According to one reading, there is y as a third consonant
(after c), and according to the other there is no y (as ścutir ). Bhaṭṭoji (in
S.K.) notes: yakārarahito'py ayam. In P.M. he quotes:
tathā ca prayujyate madhuścutam ghṛtam iva supūtam iti.
In any case the root is only parasmaipadin. Hence the doubt.
[^153a]. The printed edn. however has the reading as:
śrutvāpi tat khalu bhavān kṣamate'tra citram.
Our author perhaps had access to the different reading.
 
[^154]. See K.A.S.V.2.3, and the Vṛitti thereon. Also see S.K. on the root
cakṣiṅ vyaktāyāṃ vāci, where Bhaṭṭoji also notes the same point.
 
[^155]. See S. K. after Upasargasyāyatau (8.2.19), where this answer is noted
by Bhaṭṭoji. He also notes:
yadvā anudāttettvalakṣaṇamātmanepadam anityam iti.