This page has been fully proofread once and needs a second look.

ननु कथम्
 
सख्या चित्रितमम्बुजं स्तनतटे नो मर्दितं स्वेच्छया
मन्दं मन्दमलग्नदन्तमधुरं चिक्रीड बालासमम् ।
 
इति [^146]काव्यकण्ठाभरणे । अत्र वीप्सार्थस्यासंभवात् नित्यवीप्सयोः (८-१-४)
इत्यस्याप्राप्त्या प्रकारे गुणवचनस्येति सूत्रेणैव द्वित्वं वक्तव्यम् । तदा च कर्मधारय-
वद्भावात् सुपो लुक् स्यात् इति चेत्--अत्राहुः कथंचिद् वीप्सायामेव [^147]द्विर्भावो
निर्वाह्य इति । क्रीडनक्रियावस्थासु भेदं परिकल्प्य कथंचिद् वीप्सा बोध्या [^148]इति ।
प्रकारार्थे तु सुसाधः कवीनां प्रयोगः । मन्दमन्दमुदितः प्रययौ खम् (किरात-
९-२६)
--मन्दमन्दमितरेतरमूचुः (नैषधे ५-६६)
इत्यादिवदिति ज्ञेयमिति दिक् ।
 
इति श्रीसाहित्यकण्टकोद्धारे पूर्वपरिच्छेदे
सुबन्तप्रक्रिया समाप्ता ।
 
[^146]. I am unable to trace this work or the verse.
 
[^147]. See Vāmana's K.A.S. V.2.85, and the Vṛtti thereon. Mallinātha on
Meghasandeśa I.9 says:
atra vīpsāyām eva kathaṃcid dviruktir nirvāhyā.
 
[^148]. See P.M. on 8.1.12, which quotes khinnaḥ khinnaḥ etc. and notes thus
ekasyāpy avasthāsu bhedaṃ parikalpya kathaṃcid vīpsā boddhyā.