This page has not been fully proofread.

38
 
ननु कथम्
 
साहित्यकण्टकोद्धारः
 
सख्या चित्रितमम्बुजं स्तनतटे नो मदितं स्वेच्छ्या
 
मन्दं मन्दमलग्नदन्तमधुरं चिक्रीड बालासमम् ।
 
इति 146 काव्यकण्ठाभरणे । अत्र वीप्सार्थस्यासंभवात् नित्यवीप्सयोः (८-१-४)
इत्यस्याप्राप्त्या प्रकारे गुणवचनस्येति सूत्रेणैव द्वित्वं वक्तव्यम् । तदा च कर्मधारय-
वद्भावात् सुपो लुक् स्यात् इति चेत् --अनाहुः कथंचिद् वीप्सायामेव 147द्विर्भावो
निर्वाह्य इति । क्रीडनक्रियावस्थासु भेदं परिकल्प्य कथंचिद् वीप्सा बोध्या 148 इति ।
प्रकारार्थे तु सुसाधः कवीनां प्रयोगः । मन्दमन्दमुदितः प्रययौ खम् (किरात-
६-२६ )
 
--मन्द मन्दमितरेतरमूचुः (नैषधे ५-६६ )
इत्यादिवदिति ज्ञेयमिति दिक् ।
 
इति श्रीसाहित्यकण्टकोद्धारे पूर्वपरिच्छेदे
सुबन्तप्रक्रिया समाप्ता ।
 
146. I am unable to trace this work or the verse.
 
147. See Vāmana's K.A.S. V.2.85, and the Vrtti thereon. Mallinātha on
Meghasandeśa I.9 says:
 
atra vipsayām eva kathamcid dviruktir nirvahya.
 
148. See P.M. on 8.1.12, which quotes khinnah khinnah etc. and notes thus
ekasyapy avasthäsu bhedam parikalpya kathamcid vipsa boddhya.