This page has been fully proofread once and needs a second look.

अतसुचि पूर्वशब्दस्य पुरादेशविधायकसूत्राभावाच्च पुरत इति रूपं [^141]चिन्त्यम् इति
भाषावृत्तिः । कश्चित्तु विभाषा परावराभ्याम् (५-३-२९) इतिसूत्रे विभाषेति-
योगविभागात् पूर्वशब्दाद् अतसुच् । अस्ताति च (५-३-४०) इति चकारस्य
अनुक्तसमुच्चयार्थत्वात् पूर्वशब्दस्यातसुचि पुरादेशश्च । तेन पुरत इति रूपमिति
समाहितवान् । तन्निर्मूलमिति समानाकालीनं प्राक्कालीनमित्यादिवत् प्रामादिकमे-
वेति [^142]बहवः । यद्वा--पुर अग्रगमने इति धातोः चौरादिकात् णिजभावे
इगुपधज्ञाप्रीकिरः कः (३-१-१३५) इतिसूत्रेण कप्रत्यये पुरमिति रूपम् ।
ततस्सार्वविभक्तिकस्तसिः । तेन पुरत इति [^143]साधनीयम् ।
 
अथ कथम् --
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ ( )
 
इति प्रयोगः । अत्र संख्यैकवचनाच्च वीप्सायाम् (५-४-४३) इतिसूत्रेण शस्
वक्तव्यः । स दुर्लभः । नह्यत्र वीप्सा नापि कारकत्वमस्तीति चेत्-- अत्र [^144]वदन्ति ।
सहस्रं सहस्रं ये समेतास्तेषामपि परिषत्वं नेत्यर्थः । तथा च समवायक्रियां प्रति
कर्तृत्वं वीप्सा चास्त्येवेति ।
 
अथ कथम् --
मायाप्रपञ्चजगदर्णवभीतभीतः (चौरपञ्चाशति-- १३)
(औत्तराहपाठानुसारेण)
इति बिल्हणः ।
 
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥
(किरात-९-२६)
इति भारविश्च । अत्र प्रकारे गुणवचनस्य (८-१-१२) इतिसूत्रेण सादृश्ये
द्योत्ये द्वित्वं कर्मधारयवद्भावश्चेति वक्तव्यम् । इवशब्देनैव सादृश्यस्योक्ततया
इह प्रकारे द्वित्वायोगात् कथमयं प्रयोगः इति चेत् --सत्यम् । भीतेभ्योऽपि भीतः
इति कथंचिद् व्याख्येयम् । तेनातिभीत इति फलितोऽर्थ [^145]इत्याहुः ।
 
[^141]. See Durghaṭavṛtti on 5.3.40, which quotes the Bhāṣāvṛtti also. See
also P.M. on this.
 
[^142]. See P.M. on 5.3.39 (pūrvādharāvara-etc.).
 
[^143]. See Nāgeśa's Marmaprakāśa on the Rasagaṅgādhara (p.172; N.S.P.,
1894). It is not clear whether our author is quoting the view of Nāgeśa.
See the Introduction.
 
[^144]. See P.M. on 5.3.43 (Saṅkhyaikavacanācca etc.).
 
[^145]. See Durghaṭavṛtti, P.M., and T.B. on 8.1.12 (Prakāre).