This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
अतसुचि पूर्वशब्दस्य पुरादेशविधायकसूत्राभावाच्च पुरत इति रूपं 14 [^141]चिन्त्यम् इति

भाषावृत्तिः । कश्चित्तु विभाषा परावराभ्याम् (५-३-२६) इतिसूत्रे विभाषेति-

योगविभागात् पूर्वशब्दाद् अतसुच् । अस्ताति च (५-३-४०) इति चकारस्य

अनुक्तसमुच्चयार्थत्वात् पूर्वशब्दस्यातसुचि पुरादेशश्च । तेन पुरत इति रूपमिति

समाहितवान् । तन्निर्मूलमिति समानाकालीनं प्राक्कालीनमित्यादिवत् प्रामादिकमे-

वेति [^142 ]बहवः । यद्वा -- --पुर अग्रगमने इति धातोः चौरादिकात् णिजभावे

उगुपधज्ञाप्रीकिरः कः (३-१-१३५) इतिसूत्रेण कप्रत्यये पुरमिति रूपम् ।

ततस्सार्वविभक्तिकस्तसिः । तेन पुरत इति [^143
]साधनीयम् ।
 

 
अथ कथम् --
 
-
 

अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ।

सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ (
 
)
 

 
इति प्रयोगः । अत्र संख्यंयैकवचनाच्च वीप्सायाम् (५-४-४३) इतिसूत्रेण शस्

वक्तव्यः । स दुर्लभः । नह्यत्र वीप्सा नापि कारकत्वमस्तीति चेत् -- अत्र [^144]वदन्ति ।

सहस्रं सहस्रं ये समेतास्तेषामपि परिषत्वं नेत्यर्थः । तथा च समवायक्रियां प्रति

कर्तृत्वं वीप्सा चास्त्येवेति ।
 

 
अथ कथम् --
 

मायाप्रपश्वञ्चजगदर्णवभीतभीत: (चौरपञ्चाशति -- १३ )
 
इति बिल्हणः ।
 
37
 

(श्रौत्तराहपाठानुसारेण )
 

इति बिल्हणः ।
 
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥
 

(किरात- १ - ६-२६ )
 

इति भारविश्च । अत्र प्रकारे गुणवचनस्य (८-१-१२) इतिसूत्रेण सादृश्ये

द्योत्ये द्वित्वं कर्मधारयवद्भावश्चेति वक्तव्यम् । इवशब्देनैव सादृश्यस्योक्ततया

इह प्रकारे द्वित्वायोगात् कथमयं प्रयोगः इति चेत् --सत्यम् । भीतेभ्योऽपि भीतः

इति कथंचिद् व्याख्येयम् । तेनातिभीत इति फलितोऽर्थ [^145
]इत्याहुः ।
 
141

 
[^141]
. See Durghatavrtti on 5.3.40, which quotes the Bhāşāvrtti also. See

also P.M. on this.
 

 
[^
142]. See P.M. on 5.3.39 (pūrvādharāvara-etc.).
 

 
[^
143.
 
]. See Nāgeśa's Marmaprakāśa on the Rasagangādhara (p.172; N.S.P.,

1894 ). It is not clear whether our author is quoting the view of Näāgeśa.
 

See the Introduction.
 
144

 
[^144]
. See P.M. on 5.3.43 (Sankhyaikavacanācca etc.).
 

 
[^
145]. See Durghatavrtti, P.M., and T.B. on 8.1.12 (Prakāre).