2023-04-10 05:19:44 by ambuda-bot
This page has not been fully proofread.
साहित्यकण्टकोद्धारः
अतसुचि पूर्वशब्दस्य पुरादेशविधायकसूत्राभावाच्च पुरत इति रूपं 14 चिन्त्यम् इति
भाषावृत्तिः । कश्चित्तु विभाषा परावराभ्याम् (५-३-२६) इतिसूत्रे विभाषेति-
योगविभागात् पूर्वशब्दाद् अतसुच् । अस्ताति च (५-३-४०) इति चकारस्य
अनुक्तसमुच्चयार्थत्वात् पूर्वशब्दस्यातसुचि पुरादेशश्च । तेन पुरत इति रूपमिति
समाहितवान् । तन्निर्मूलमिति समानाकालीनं प्राक्कालीनमित्यादिवत् प्रामादिकमे-
वेति 142 बहवः । यद्वा -- पुर अग्रगमने इति धातोः चौरादिकात् णिजभावे
उगुपधज्ञाप्रीकिरः कः (३-१-१३५) इतिसूत्रेण कप्रत्यये पुरमिति रूपम् ।
ततस्सार्वविभक्तिकस्तसिः । तेन पुरत इति 143
साधनीयम् ।
अथ कथम् --
-
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ (
)
इति प्रयोगः । अत्र संख्यंकवचनाच्च वीप्सायाम् (५-४-४३) इतिसूत्रेण शस्
वक्तव्यः । स दुर्लभः । नयत्र वीप्सा नापि कारकत्वमस्तीति चेत् -- अत्र वदन्ति ।
सहस्रं सहस्रं ये समेतास्तेषामपि परिषत्वं नेत्यर्थः । तथा च समवायक्रियां प्रति
कर्त त्वं वीप्सा चास्त्येवेति ।
अथ कथम् --
मायाप्रपश्वजगदर्णवभीतभीत: (चौरपञ्चाशति -- १३ )
इति बिल्हणः ।
37
(श्रौत्तराहपाठानुसारेण )
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥
(किरात- १ - २६ )
इति भारविश्च । अत्र प्रकारे गुणवचनस्य (८-१-१२) इतिसूत्रेण सादृश्ये
द्योत्ये द्वित्वं कर्मधारयवद्भावश्चेति वक्तव्यम् । इवशब्देनैव सादृश्यस्योक्ततया
इह प्रकारे द्वित्वायोगात् कथमयं प्रयोगः इति चेत् --सत्यम् । भीतेभ्योऽपि भीतः
इति कथंचिद् व्याख्येयम् । तेनातिभीत इति फलितोऽर्थ 145
इत्याहुः ।
141. See Durghatavrtti on 5.3.40, which quotes the Bhāşāvrtti also. See
also P.M. on this.
142. See P.M. on 5.3.39 (pūrvādharāvara-etc.).
143.
See Nāgeśa's Marmaprakāśa on the Rasagangādhara (p.172; N.S.P.,
1894 ). It is not clear whether our author is quoting the view of Nägeśa.
See the Introduction.
144. See P.M. on 5.3.43 (Sankhyaikavacanācca etc.).
145. See Durghatavrtti, P.M., and T.B. on 8.1.12 (Prakāre).