Proofing

✦

This page has been fully proofread once and needs a second look.

36
 
अथ कथम् -
 
--
 
अवतीर्य यदोवंर्वशे भगवान् सात्वतां पतिः (भागवते? ) इति प्रयोगः । अत्र

सत्त्वम् एषामस्तीति विग्रहे तदस्यास्त्यस्मिन्निति (५-२-१४ ) मतुपि

मादुपधायाः (८-२-६) इत्यनेन वत्वे च सत्त्ववताम् इति स्यात् । तत् कथं

सात्त्वताम् इति चेत् --सत्यम् । सत्त्वमेषामस्तीत्यर्थे एव सस्य दीर्घो वस्य लोपश्च

छान्दसत्वादिति श्रीधरस्वामिनः । वस्तुतस्तु अनुपसर्गाल्लिम्पेत्यादिसूत्रे (३-१-

१३८) सातिः सौनोत्रो धातुरिति काशिका । सुखार्थ इति च रक्षितः । सातिर्हेतु-

मण्ण्यन्त इति हरदत्तः । तस्मात् क्विपि सात् इति रूपम् । सातयति सुखयतीत्यर्थे

सात् परमात्मा । ( एष ह्येवानन्दयतीति श्रुतेः तस्य सुखयितृत्वावगमात् - इति
-इति
बालमनोरमा ।) स एषामिति सात्वन्तो भक्ताः इति [^140 ]भाष्यज्ञाः ।
 

 
अय कथम् --
 

पश्यामि तामित इतः पुरतश्च पश्चात्
 
इति भवभूतिः ।
 
साहित्यकण्टकोद्धारः
 

( मालतीमाधवे १ -४३ )
 

इति भवभूतिः ।
लोभस्य पुरतः केऽमी सत्यास्तेयाप्रतिग्रहाः
 

( प्रबोधचन्द्रोदये १-१५)
 

 
इति कृष्णमिश्रश्च । इयं च तेऽन्या पुरतो विडम्बना
 

( कुमार ५-७० )
 

 
इति कालिदासश्च । पुरत इति रूपम् अतसुच् प्रत्ययेन साधनीयम् । तन्न

घटते । तथा हि--पूर्वाधरावराणामसिपुरधवश्चैषाम् (५-३-३६) इति सूत्रेण

असिप्रियरत्यये उत्तरसूत्रेण अस्तातौ च पूर्वादीनां पुरादयः आदेशा विहिताः । तेन पुरः

पुरस्तात् इति रूपेण भवितव्यम् । पूर्वशब्दाद् अतसुच्प्रत्ययविधायकसूत्राभावात्
 

 
[^
140]. This is a reference to Bhattṭṭoji. His SŚ.K. has a good discussion about

this on 3.1.138. Bhattṭṭoji takes sāt with bhāve kvip in the sense of brahman.

The Baālamanoramãā explains it with kartari kvip also. Bhattṭṭoji quotes in his
S

Ś
.K. (3.1.138) the line sātvatāṃ patiḥ from patih from the Visnṣṇusahasranāma-.
 

 
In the context of sātvati orī vṛtti and sātvato gunahṇaḥ (pp. 86, & 96; N.SŚ.; Vol.

III. GOS), Abhinava says thus:
 

sat=sattvam ==prakāśahḥ. tat vidyate yatra tat sat+van == manahḥ.tasmin (satvati

manasi) bhavahḥ sātvato gunahṇaḥ (p. 96, Ibid.)
 

(....Similarly on sātvatiī (orvṛtti) he says:
 

sat=satvarūpamṃ vidyate yeşṣām te satvantah. teşṣām iyamṃ sātvatiī (p. 86, Ibid.)

 
In these places the printed edition has corrupt readings. What is given

here is the reading as corrected by me.