2023-04-26 10:28:01 by ramamurthys
This page has been fully proofread once and needs a second look.
अथ कथम्--
वृद्ध्याजीवश्च वार्धुषिः इत्यमरः ।
न स्तेनः स्यान्न वार्धुषिः । वार्धुष्यं लवणक्रिया ।
वार्धुषिः सप्तकं यथा इत्यादि च । अत्र वृद्ध्यर्थं प्रयच्छतीति विग्रहे प्रयच्छति
गर्ह्यम् (४-४-३०) इति सूत्रेण गर्हार्थे ठकि कृते वृद्धेर्वृधुषिभावो वक्तव्यः इति
वार्त्तिकेन वृधुषिभावे वार्धृषिक इति स्यात् । कथं वार्धुषिरिति चेत्--सत्यम् ।
स्वच्छन्दवाचः कवय इति [^137]हरदत्तः समादधौ ।
अथ कथम् --
तदनु कदनभूमेः खेचरैः स्तूयमानः
प्रसभमवनिभर्तुः सोदरो निर्जगाम । (राघवपाण्डीवीये १० - ४२ )
इति कविराजः ।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति (अनर्घ-१-४) इति मुरारिश्च ।
अत्र सोदराद् यः (४-४-१०६९) इतिसूत्रेण यप्रत्यये सोदर्य इति स्यादिति चेत्--
अत्राहुः[^138] । सह-समानम् उदरं यस्येति बहुव्रीहौ समानार्थकसहशब्दस्य वोपस-
र्जनस्य (६-३-८२) इतिसूत्रेण सभावे रूपमिदम् । न चात्रापि यप्रत्ययः कुतो नेति
वाच्यम् । समानोदरे शयितः (४-४-१०८) इति पूर्वसूत्रार्थविषयत्वात् यप्रत्ययस्येति
नात्र यप्रत्ययः । एतेन यत्र भ्राता सहोदरः (वाल्मीकिरामायणे युद्धकाण्डे १०१
सर्गे १५ श्लोकः) इत्यपि व्याख्यातम् ।
अथ कथम्--
ततो यथावद् विहिताध्वराय (रघुवंशे ५-१६) इति कालिदासः ।
अत्र यथावदित्यत्र तदर्हम् (५-१-११७) इतिसूत्रेण वतिप्रत्ययो वक्तव्यः ।
स च द्वितीयान्तादेव अर्हतीत्यर्थे संभवति । यथाशब्दस्य अव्ययत्वात् द्वितीयान्तत्वं
कथम्--इति चेत्--अत्र वदन्ति । [^139]यथाशब्दो वृत्तिविषये सत्त्वार्थकः । तथात्वं
यथात्वम् इत्यादिषु त्वतलादिदर्शनात् । तथा च द्वितीयान्तार्थकाद् यथाशब्दादर्हार्थे
वतिः । यथा-योग्यताम् अर्हति विधानम् आख्यानं वेत्यर्थाद् वतिः साधुरेवेति
कृत्वा यथावदिति युक्तम् इति ।
[^137]. Printed editions of the Padamañjarī read: svacchandavācaḥ ṛṣayaḥ.
Bhaṭṭoji's P.M. ( on 4.4.30) quotes Haradatta's line as svacchandavācaḥ
kavayah.
[^138]. See P.M. on 4.4.109. See also S.K. on 6.3.84.
[^139]. See P.M. and the Tattvabodhinī on 5.1.117.
वृद्ध्याजीवश्च वार्धुषिः इत्यमरः ।
न स्तेनः स्यान्न वार्धुषिः । वार्धुष्यं लवणक्रिया ।
वार्धुषिः सप्तकं यथा इत्यादि च । अत्र वृद्ध्यर्थं प्रयच्छतीति विग्रहे प्रयच्छति
गर्ह्यम् (४-४-३०) इति सूत्रेण गर्हार्थे ठकि कृते वृद्धेर्वृधुषिभावो वक्तव्यः इति
वार्त्तिकेन वृधुषिभावे वार्धृषिक इति स्यात् । कथं वार्धुषिरिति चेत्--सत्यम् ।
स्वच्छन्दवाचः कवय इति [^137]हरदत्तः समादधौ ।
अथ कथम् --
तदनु कदनभूमेः खेचरैः स्तूयमानः
प्रसभमवनिभर्तुः सोदरो निर्जगाम । (राघवपाण्डीवीये १० - ४२ )
इति कविराजः ।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति (अनर्घ-१-४) इति मुरारिश्च ।
अत्र सोदराद् यः (४-४-१०