This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
अथ कथम्
--
 
वृद्धयाजीवश्च वार्धुषिः इत्यमरः ।
 
न स्तेनः स्यान्न वार्धुषिः । वार्धुष्यं लवणक्रिया ।
 
वार्धुषिः सप्तकं यथा इत्यादि च । अत्र वृद्धयर्थं प्रयच्छतीति विग्रहे प्रयच्छति
गर्ह्यम् (४-४-३०) इति सूत्रेण गर्हार्थे ठकि कृते वृद्धेर्व धुषिभावो वक्तव्यः इति
वात्तिकेन वृधुषिभावे वार्धषिक इति स्यात् । कथं वार्धुषिरिति चेत् --सत्यम् ।
स्वच्छन्दवाचः कवय इति 187 हरदत्तः: समादधौ ।
 
अथ कथम् --
 
35
 
तदनु कदनभूमेः खेचरैः स्तूयमानः
 
प्रसभमवनिभर्तुः सोदरो निर्जगाम । (राघवपाण्डीवीये १० - ४२ )
 
इति कविराजः ।
 
138
 
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति (अनर्घ-१-४) इति मुरारिश्च ।
अत्र सोदराद् यः (४-४-१०६) इतिसूत्रेण यप्रत्यये सोदर्य इति स्यादिति चेत् --
अत्राहुः । सह-समानम् उदरं यस्येति बहुव्रीहौ समानार्थकसहशब्दस्य वोपस-
र्जनस्य (६-३-८२) इतिसूत्रेण सभावे रूपमिदम् । न चात्रापि यप्रत्ययः कुतो नेति
वाच्यम् । समानोदरे शयितः (४-४-१०८) इति पूर्वसूत्रार्थविषयत्वात् यप्रत्ययस्येति
नात्र यप्रत्ययः । एतेन यत्र भ्राता सहोदरः (वाल्मीकिरामायणे युद्धकाण्डे १०१
सर्गे १५ श्लोकः) इत्यपि व्याख्यातम् ।
 
अथ कथम्-
ततो यथावद् विहिताध्वराय (रघुवंशे ५-१६) इति कालिदासः ।
 
अत्र यथावदित्यत्र तदर्हम् (५-१-११७) इतिसूत्रेण वतिप्रत्ययो वक्तव्यः ।
स च द्वितीयान्तादेव अर्हतीत्यर्थे संभवति । यथाशब्दस्य अव्ययत्वात् द्वितीयान्तत्वं
कथम् -- इति चेत् -- अत्र वदन्ति । 139 यथाशब्दो वृत्तिविषये सत्त्वार्थकः । तथात्वं
यथात्वम् इत्यादिषु त्वतलादिदर्शनात् । तथा च द्वितीयान्तार्थकाद् यथाशब्दादर्थे
वतिः । यथा-योग्यताम् अर्हति विधानम् आख्यानं वेत्यर्थाद् वतिः साधुरेवेति
कृत्वा यथावदिति युक्तम् इति ।
 
137. Printed editions of the Padamaftjari read: svacchandavācah rşayah.
Bhattoji's P.M. ( on 4.4.30) quotes Haradatta's line as svacchandavācah
kavayah.
 
138. See P.M. on 4.4.109. See also S.K. on 6.3.84.
139. See P. M. and the Tattvabodhinī on 5.1.117.