2023-04-26 11:13:11 by ramamurthys
This page has been fully proofread once and needs a second look.
तदप्राप्तेरिति चेत्--सत्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इति [^132]भाष्यकारे-
ष्ट्या (दिङ्नामान्यन्तराले-२-२-२६--इति सूत्रे- दक्षिणोत्तराभ्यामतसुच्--
५-३-२८- इतिसूत्रे च भाष्यं दृश्यताम् ) वृत्तिमात्रे इति मात्रशब्देन कार्त्स्न्यार्थकेन
अन्यत्रापि वृत्तौ--समासे तद्धितान्तरे च--पुंवद्भावः साधुरेवेति वदन्ति ।
अथ कथम्--
पाशं दधानः करबद्धवासं विभुर्बभावाप्यम् अवाप्य देहम् ॥
(नैषधे-१४-६७)
इति श्रीहर्षः । अत्र अपां विकार इत्यर्थे एकाचो नित्यम् (नित्यं वृद्धशरा-
दिभ्यः -४-३-१४४ इति सूत्रे कौमुदी दृश्यताम् ) इत्यनेन मयट्प्राप्तेः अम्मयम्
इति स्यात् । तत् कथम् आप्यमिति चेत्--अत्र वदन्ति अपां संबन्धीत्यर्थे तस्ये-
दम् (४-३-१२०) इत्यण्प्रत्यये ततः स्वार्थे ष्यणि रूपमिति[^133] ।
अथ कथम्--
ये यन्मयाः स्मृता--तेषामेतास्तु तन्मयाः ।
विना प्रमेहमप्येता जायन्ते हृष्टमेधसः ॥ इति मधुकोशः ।
अयं विषाङ्को विधुरेष नूनं कलाः समस्ता अपि तन्मयास्ताः ।
योगौषधे येन समं न यान्ति केचिद् वियोगादरुचिं भजन्ते ॥ ( ? )
इति च । अत्र एतास्तन्मयाः इत्यादौ मयटष्टित्वात् टिड्ढाणञ् (४-१-१५)
इत्यादिना ङीप् स्यात् इति चेत्[^134] अत्राहुः --क्वचिदपवादविषयेप्युत्सर्गोऽभिनि-
विशते इति परिभाषया टाप् भवतीति कथंचिद् व्याख्येयमित्याहुः ।
अथ कथम्--
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये (काव्यप्रकाशे ) इति मम्मटः ।
अत्र कवेर्भावः कर्म वेति विग्रहे इगन्ताच्च लघुपूर्वात् (५-१-१३१) इति सूत्रेण अण्
प्रत्यय:यः स्यात् । ततश्च कावम् इति रूपं भवेत् इति चेत्--अत्र वदन्ति गुणवचन-
ब्राह्मणादिभ्यः (५-१-१२४) इत्यनेन ष्यञि [^135]भविष्यतीति । केचित् तु कु शब्दे
इति धातोः ओरावश्यके (३-१-१२५) इतिसूत्रेण ण्यत् प्रत्यये रूपमित्याहुः[^136] ।
[^132]. The answer is supplied by the Iṣṭi, which records the puṃvadbhāva in
all the vṛttis (i.e. samāsa, and all Taddhita cases, not only ṭhak and chas). See
Note 130.
[^133]. See S.K. on 4.3.144 (nityaṃ vṛddha etc.). Bhaṭṭoji gives this answer.
See also the Durghaṭavṛtti on 4.3.144.
[^134]. See the Paribhāṣenduśekhara.
[^135]. The Kāśikā says: brāhmaṇādiṣu kaviśabdo draṣṭavyaḥ (on 5.1.131).
See also S.K. and P.M. on 5.1.131.
[^136]. Bhaṭṭoji says in his P.M. : yadyapi kudhātoḥ Orāvaśyake (3.1.125) iti
ṇyati kāvyam iti susādham, tathāpi kaveḥ karmetyarthe kāvam iti syad iti praśnaḥ.

प्रत्य