2023-04-10 05:19:45 by ambuda-bot
This page has not been fully proofread.
साहित्यकण्टकोद्धारः
ष्ट्या
तदप्राप्तेरिति चेत् --सत्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इति 132 भाष्यकारे-
(दिङ्नामान्यन्तराले-२-२-२६ - इति सूत्रे- दक्षिणोत्तराभ्यामतसुच्--
५-३-२८- इतिसूत्रे च भाष्यं दृश्यताम् ) वृत्तिमात्रे इति मात्रशब्देन कात्स्यर्थिकेन
अन्यत्रापि वृत्तौ--समासे तद्धितान्तरे च-- -- पुंवद्भावः साधुरेवेति वदन्ति ।
34
अथ कथम् --
पाशं दधानः करबद्धवासं विभुर्बभावाप्यम् अवाप्य देहम् ॥
(नैषधे १४-६७)
इति श्रीहर्षः । अत्र अपां विकार इत्यर्थे एकाचो नित्यम् (नित्यं वृद्धशरा-
दिभ्यः -४-३-१४४ इति सूर्वे कौमुदी दृश्यताम् ) इत्यनेन मयट्प्राप्तेः अम्मयम्
इति स्यात् । तत् कथम् आप्यमिति चेत् --अत्र वदन्ति अपां संबन्धीत्यर्थे तस्ये-
दम् (४-३-१२०) इत्यण्प्रत्यये ततः स्वार्थे व्यणि रूपमिति ।
अथ कथम् --
ये यन्मयाः स्मृता--तेषामेतास्तु तन्मयाः ।
विना प्रमेहमप्येता जायन्ते हृष्टमेधसः ॥ इति मधुकोशः ।
अयं विषाको विधुरेष नूनं कलाः समस्ता अपि तन्मयास्ताः ।
योगौषधे येन समं न यान्ति केचिद् वियोगादर्शच भजन्ते ॥ ( ? )
इति च । अत्र एतास्तन्मयाः इत्यादौ मयटष्टित्वात् टिड्ढाणञ्ञ् (४-१-१५)
इत्यादिना ङीप् स्यात् इति चेत् अत्राहुः -क्वचिदपवादविषयेप्युत्सर्गोऽभिनि-
विशते इति परिभाषया टाप् भवतीति कथंचिद् व्याख्येयमित्याहुः ।
अथ कथम्--
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये (काव्यप्रकाशे ) इति मम्मटः ।
अत्र कवेर्भावः कर्म वेति विग्रहे इगन्ताच्च लघुपूर्वात् (५-१-१३१) इति सूत्रेण अण्
प्रत्यय: स्यात् । ततश्च कावम् इति रूपं भवेत् इति चेत् --अत्र वदन्ति गुणवचन-
ब्राह्मणादिभ्यः (५-१-१२४) इत्यनेन ष्यनि 135 भविष्यतीति । केचित् तु कु शब्दे
इति धातोः ओरावश्यके (३-१-१२५) इतिसूत्रेण ण्यत् प्रत्यये रूपमित्याहुः
136
132. The answer is supplied by the Isti, which records the pumvadbhāva in
all the orttis (i.e. samāsa, and all Taddhita cases, not only thak and chas). See
Note 130.
133. See S.K. on 4.3.144 (nityam vrddha etc.). Bhattoji gives this answer.
See also the Durghatavrtti on 4.3.144.
134. See the Paribhāşenduśekhara.
135. The Kāsikā says: brāhmanādişu kaviśabdo drastavyah (on 5.1.131).
See also S.K. and P.M. on 5.1.131.
136. Bhattoji says in his P.M.: yadyapi kudhātoh Orāvaśyake (3.1.125) iti
nyati kavyam iti susādham, tathāpi kaveḥ karmetyarthe kävam iti syad iti praśnah.