2023-04-26 11:09:25 by ramamurthys
This page has been fully proofread once and needs a second look.
पश्चात्तनेन शिशुना च शुना च लीढं
नो वेत्ति वेश्यवनिता व्यवहारवेशात् ॥ इति च[^१२५] बिल्हणः ।
अत्र पश्चादागत इत्याद्यर्थविग्रहे दक्षिणापश्चात्पुरसस्त्यक् (४-२-९८)
इतिसूत्रेण त्यक्प्रत्ययस्य प्राप्तेरीदृशप्रयोगस्य कथं साधुत्वमिति शङ्का । दिग्देश-
वाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् ट्युट्युलौ बाधेते परत्वादि-
त्यपि न समाधानम् । अग्रादिपश्चाड्डिमच् इतिवार्त्तिकेण (सायंचिरमित्यादि-
सूत्रे (४-३-२३) कौमुदी दृश्यताम्) डिमचो विधानात् । तेन ट्युट्युलोर्बाधस्य
दुर्वारत्वात् इति चेत्--अत्रोच्यते । प्रमाद एवायमिति केचित् । पश्चात् तन्वन्ति
इति तनोतेः पचाद्यच् (३-१-१३४) इति वा कथंचिद् योज्यमित्येके[^।26] ।
अथ कथम्--
प्रपेदिरे प्राक्तनजन्मविद्या:याः (कुमार-१-३०)
इति कालिदासः ।
बालं कंचन पञ्चबाणसदृशं चूडापदे लालयन्
पाणौ प्राक्तनसूक्तिसौरभमयीं पात्रीं समारोपयन् ।
वामाङ्गे बलवैरिरत्नसुषमावैदग्ध्यमुद्द्योतयन्
स त्यागी चिरमस्तु चेतसि महायोगी वियोगी गुणैः ॥
इति च कथं प्रयोगः । अत्र प्रागित्यव्ययात् द्युप्रागपागुदक्प्रतीचो
यत् (४-२-
१०१) इति सूत्रेण यत् प्रत्यये प्राच्यमिति स्यात् । कथं प्राक्तनेति पदमिति चेत्--
अत्राहु:[^127] कालवाचिनः प्राक्-शब्दात् परत्वात् ट्युट्युलाविति ।
अथ कथम्--
जानक्या: कमलामलाञ्जलिपुटे याः पद्मरागायिताः
न्यस्ता राघवमस्तके च विलसत्कुन्दप्रसूनायिताः ।
स्रस्ताः श्यामलकायकान्तिकलिता या इन्द्रनीलायिताः
मुक्तास्ताः शुभदा भवन्तु भवतां श्रीरामवैवाहिकाः ॥
(महानाटके ?)
[^125]. MSS. D & G read : bhāṇaḥ !
MS. B reads : bāṇaḥ !
MS. C reads: ..ṇaḥ !
MSS. A, E, and F read Bilhaṇaḥ.
[^126]. See P.M. on Daksiṇāpaścāt etc. (4.2.98).
[^127]. See P.M. on Dyuprāgapāg-etc. (4.2.101).

प्रपेदिरे प्राक्तनजन्मविद्