This page has been fully proofread once and needs a second look.

32
 
पश्चात्तनेन शिशुना च शुना च लीढं
 

नो वेत्ति वेश्यवनिता व्यवहारवेशात् ॥ इति च "[^१२५] बिल्हणः ।

 
त्र पश्चादागत इत्याद्यर्थविग्रहे दक्षिणापश्चात्पुरसस्त्यक् (४-२-९८)

इतिसूत्रेण त्यक्प्रत्ययस्य प्राप्तेरीदृशप्रयोगस्य कथं साधुत्वमिति शङ्का । दिग्देश-

वाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् ट्युट्युलौ बाधेते परत्वादि-

त्यपि न समाधानम् । अग्रादिपश्चाड्डिमच् इतिवार्त्तिकेण (सायंचिरमित्यादि-

सूत्रे (४-३-२३) कौमुदी दृश्यताम्) डिमचो विधानात् । तेन ट्युट्युलोर्बाधस्य

दुर्वारत्वात् इति चेत् -- --नोत्रोच्यते । प्रमाद एवायमिति केचित् । पश्चात् तन्वन्ति

इति तनोतेः पचाद्यच् (३-१-१३४) इति वा कथंचिद् योज्यमित्येके [^।26
 
W
 
] ।
 
अथ कथम् --
 
--
प्रपेदिरे प्राक्तनजन्मविद्या: (कुमार-१-३०)
 

इति कालिदासः ।
 

 
बालं कंचन पञ्चबाणसदृशं चूडापदे लालयन्
 

पाणौ प्राक्तनसूक्तिसौरभमयीं पात्रोंरीं समारोपयन् ।

वामाङ्गे बलवैरिरत्नसुषमावैदग्ध्यमुद्द्योतयन्
 

स त्यागी चिरमस्तु चेतसि महायोगी वियोगी गुणैः ॥

 
इति च कथं प्रयोगः । अत् प्रागित्यव्ययात् द्युप्रागपागुदक्प्रतीचो
यत् (४-२-

१०१) इति सूत्रेण यत् प्रत्यये प्राच्यमिति स्यात् । कथं प्राक्तनेति पदमिति चेत् --
--
नात्राहु: [^1 2 7] कालवाचिनः प्राक्-शब्दात् परत्वात् ट्युट्युलाविति ।
 

 
अथ कथम्
--
 
साहित्यकण्टकोद्धारः
 
--
जानक्या: कमलामलाञ्जलिपुटे याः पद्मरागायिताः

न्यस्ता राघवमस्तके च विलसत्कुन्दप्रसूनायिताः ।
 
त्

स्
रस्ताः श्यामलकायकान्तिकलिता या इन्द्रनीलायिताः

मुक्तास्ताः शुभदा भवन्तु भवतां श्रीरामवैवाहिकाः ॥
 

(महानाटके ?)
 
[^
125]. MSS. D & G read : bhānahṇaḥ !

MS. B reads : bānahṇaḥ !
 

MS. C reads: ..nahṇaḥ !
 

MSS. A, E, and F read Bilhanah.
 
ṇaḥ.
 
[^
126]. See P.M. on Daksināpaścāt etc. (4.2.98).

[^
127]. See P.M. on Dyuprāgapāg-etc. (4.2.101).
 
(महानाटके ? )