This page has been fully proofread once and needs a second look.

अथ कथम्--
अस्त्रवेदविदयं महीपतिः पार्वतीय इति मावजीगणः ।
(किरातार्जुनीये १३-६७)
इति भारविप्रयोगः ।
तत्र घोरं रघोर्जन्यं पार्वतीयैर्गणैरभूत्[^123] । (रघुवंशे ४-७७)
इति कालिदासप्रयोगश्च । अत्र पर्वते भवा इत्यर्थे पर्वताच्च (४-२-
१४३) इति छप्रत्यये पर्वतीय इति स्यात् । न तु पार्वतीय इति । तत् कथमत्र दीर्घः
इति चेत्--सत्यम् । पर्वतीयस्य इमे इत्यर्थे छान्तादणि रूपमित्याहुः । न च शैषिकात्
शैषिको न स्यादिति वाच्यम् । सरूपस्यैव प्रतिषेधात् । असरूपत्वात् छस्य न दोषः ।
 
अथ कथम्--
औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
संनिपत्य शनकैरथ निम्नादन्धकारमुदवाप समानि ॥ (किरात -११)
इति भारविः ।
नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
(कुमार-८-५८)
 
इति च कालिदासः । अत्र उषसि भवः शर्वर्यां भवः इत्याद्यर्थेषु कालाट्ठञ्
(४-३-११) इति सूत्रेण ठञ् प्रत्यये कृते औषसिक: शार्वरिकः इति स्यात् इति
चेत्--सत्यम् । समानकालीनं प्राक्कालीनमितिवदपभ्रंशा[^124] एवेति पदशास्त्र-
निष्णाताः ।
 
अथ कथम्--
नृपः पुरःस्थैः प्रतिबद्धवर्त्मा पश्चात्तनैः कश्चन नुद्यमानः ।
(यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वम् ॥)
( नैषधे-१०-६)
इति श्रीहर्षः ।
लम्बस्तनद्वयमुदस्य निजांसमार्गात्
पृष्ठस्थिरीकृतमहो त्रपया सहैव ।
 
[^123]. This line from the Raghu- IV.77 was quoted by Bhaṭṭoji in his P.M.
on 4.2.143 (parvatācca), and the answer found in our text was in fact given by
Bhaṭṭoji there. According to Mallinātha the reading is parvatīyaiḥ. There
is however a footnote reading of pārvatīya, in the Raghu.
 
[^124]. See S.K. on Kālāṭṭhañ (4.3.11). Mallinātha on Kirāta-IX.8 says:
sandhiveletyādinā yogavibhāgād aṇ-pratyayaḥ.