Proofing

✦

This page has been fully proofread once and needs a second look.

30
 
साहित्यकण्टकोद्धारः
 
इति मुरारिः ।
 

 
अनत्र इक्ष्वाकुनाम्नो जनपदस्य <flag>राजान</flag> इति विग्रहे जनपदशब्दात् क्षत्रियादञ्

(४-१-१६६) इतिसूत्रेण अनिञि कृते ज्ञ्यादयस्तद्राजाः (५-३-११६) इत्यनेन

तद्राजसंज्ञायाम् तद्राजस्य बहुषु तेनैवास्त्रियाम् (२-४-६२) इति लुकि इक्ष्वाकुषु

इति स्यात् इक्ष्वाकूणां दुरापेऽर्थे (रघुवंशे १-७२) इतिवत् । तत् कथम् ऐक्ष्वाके-

ष्विति प्रयोगः । अत्रोच्यते--

नायमञ्ञ्जञन्तः येनोक्तसंभवः स्यात् । किंतु अयमणन्तः ।

इक्ष्वाकुशब्दात् कोपधादण् (४-२-१३२) इतिसूत्रेण अणि रूपम् । दाण्डिनायने-

त्यादिसूत्रे (६-४-१७४) निपातनात् उकारलोपः । न च अण्प्रत्ययस्य तद्राजस्येति

(२-४-६२) लुक् । ञ्यादिमध्ये (५-३-११६ सूत्रं दृश्यताम्) अणो गणनाभावात्

तद्राजसंज्ञाया अभावेन तद्राजस्येति लुकः अप्राप्तेः इत्याहुः [^120] ।
 

 
अथ कथम्--

चत्वारो वयम् ऋत्विजः--

कौरव्याः पशवः -- - (वेणीसंहारे १-२५)
 

 
इति प्रयोगः । अत्र कुरुदेशानां राजान इत्यर्थे कुरुनादिभ्यो ण्यः (४-१-१७२)

इतिविहितस्य ण्यप्रत्ययस्य पूर्ववदेव बहुत्वे लुक् स्यादिति चेत् --सत्यम् । कौरव्ये

साधवः इति साध्वर्थे तत्र साधुः (४-४-६८) इतिसूत्रेण यत्प्रत्यये रूपसिद्धि: [^121] ।

एतेन तस्यामेव रघोः पाण्ड्याः (रघुवंशे ४-४६) इति पाण्ड्यशब्दोऽप्येवं व्याख्यातः ।
 

ननु
 

नैषधे बत वृते दमयन्त्या व्रीडितो न हि बहिर्भवितास्मि (नैषधे ५-७१)

इति श्रीहर्षप्रयोगः कथं संगच्छते । अत्र पूर्ववद् विग्रहे कुरुनादिभ्यः (४-१-

१७२) इत्यनेन नादित्वेन ण्यप्रत्ययप्राप्तिरिति चेत् -- --अत्र वदन्ति । राजन्यर्थे

असाधुरेवायम् । तथापि संबन्धसामान्यविवक्षायां तस्येदम् (४-३-१२०) इत्यनेन

शैषिकोऽण् [^122] व्याख्येय इति ।
 

 
[^
120]. See S.K. and P.M. on Dāndṇḍināyana-etc. (6.4.174).
 

 
Murāri uses aikşṣvāka in many places. See also A.R. II.13, and V.5

Rucipati in his commentary on III.57 says thus :
 

(ikşṣvākuśabdāt) tasyāpatyam (4.1.92) ityautsargikah anḥ aṇ. (ikşṣvākuśabde)
dand

dāṇḍ
ināyanetyādinā ukāralopaḥ.
 

 
[^
121]. See Durghatṭavrtti and Sṛtti and Ś.K. on 2.4.62. Bhattṭṭoji says that raghūnṇām

and yadubhihḥ are lākşanṣaṇikaśabdas. See also Haradatta 2.4.66 about raghūnṇām.

 
[^
122]. Bhattṭṭoji quotes the line
 
sa naiş

sa naiṣ
adhasyārthapatehḥ (XVIII.1)
 

from the Raghuvamṃśa, and gives this answer. See also S.K. on 4.1.172.

The word naişṣadha is used several times by Sriharşīharṣa. See also for instance

Naişṣadha III.46; III.79; and XVII.139.