This page has been fully proofread once and needs a second look.

अथ कथम्--
(सुवर्णपुङ्खाः सुदृढाः सुतीक्ष्णा वज्रोपमा वायुसमानवेगाः ।
यावन्न गृह्णन्ति शिरांसि बाणा:) प्रदीयतां दाशरथाय मैथिली ॥
( हनुमन्नाटके ७-८)
 
इति प्रयोगः । अत्र दशरथस्यापत्यमिति विग्रहे अत <flag>इञ</flag>इञ् (४-१- ) इति
सूत्रेण इञ्प्रत्ययप्राप्तेः (दाशरथये इति भवितव्यम्) इति चेत्--अत्राहुः ।[^114]
अपत्यरूपविशेषस्याविवक्षायां शैषिकोऽण्प्रत्ययो भविष्यतीति ।
 
अथ कथम्--
दाक्षायणीमुखसरोरुहकर्णिकायाम् इति ।
दाक्षायणी श्रीरिव निर्बभासे इति च ।
 
अत्र दक्षस्य साक्षादपत्यं स्त्रीति विग्रहे अत इञि (४-१-५) इतिसूत्रेण इञि
दाक्षिरिति स्यात्--इति चेत्--अत्र दक्षस्यापत्यं दाक्षायणीति अपत्ये गोत्रत्वोप-
चारात् गोत्रे कुञ्जादिभ्यः (४-१-८) इतिसूत्रेण <flag>च्ञ </flag>ञ् प्रत्यये जातेरस्त्री-
विषयादयोपधात् (४-१-६३) इति <flag>ङोङीषि</flag> च स्त्रीप्रत्यये [^115]रूपमित्याहुः । अन्ये तु
दक्षस्यापत्यं दाक्षिः । अत <flag>इञ</flag>इञ् (४-१-५) । ततः आसुरेरुपसंख्यानम् वार्त्तिके
(४-१-१ सूत्रस्थे) आसुरि-दाक्ष्योरुपसंख्यानमित्युपसंख्यानाद्[^116] दाक्षायणीति
भवतीति वदन्ति । अपरे तु दक्षम् अयते प्राप्नोतीति विग्रहे अय गताविति धातोः
ल्युटि प्रज्ञादित्वात् [^117] (५-४-३८) अणि रूपमित्याहुः ।
 
वस्तुतस्तु दक्षस्यापत्यं स्त्री दाक्षिः । ततो वा नामधेयस्य वृद्धसंज्ञा वाच्या[^118]
इति वार्त्तिकेण वृद्धसंज्ञायाम् उदीचां वृद्धादगोत्रात् (४-१-१५७) इतिसूत्रेण फिञ्ञ्
इति प्रत्यये रूपमिति भाष्यमन्थनकर्तारः ।[^119]
 
अथ कथम् --
ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमद्याशिषः
(अनर्घराघवे ३-५७)
 
[^114]. See Prauḍhamanoramā on Ata iñ (4.1.95).
Pradīyatāṃ dāśarathāya maithilī is also quoted in the Kāsikā on 4.1.95.
 
[^115]. To whom is this reference is not clear.
 
[^116]. I do not find the inclusion of dākṣi in the sources available to me.
 
[^117]. Nyāsakāra notes : prajñādir ayam ākṛtigaṇaḥ.
 
[^118]. See the S.K. on 1.1.75 (eṅ prācāṃ deśe).
 
[^119]. This is reference to Bhaṭṭoji. See also Notes 35, and 99.
See the P.M. on 4.1.157.